Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 436
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०१ इति । जति-कुल-बल-रूप-तपः- श्रुत-लाभैश्वर्यमदाभावाद् उच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम् । दान-लाभ-भोगोपभोग-वीर्यान्तरायविधानाद् आन्तरायिकं कर्म बध्यते । एते ह्याश्रवाः । साम्प्रतं परिश्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि । एवमाश्रवका निर्जरकाः सभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः । 5 एतानि च पदानि सम्बुध्यमानैस्तीर्थकर-गणधरैर्लोकमभिसमेत्य पृथक् पृथक् प्रवेदितम् । अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह आघा इत्यादि । ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी । स 10 आख्याति आचष्टे । इह इति प्रवचने । केषां ? मानवानाम्, सर्वसंवरचारित्रार्हत्वात् तेषाम् । अथवोपलक्षणं चैतद्देवादीनाम् । तत्रापि केवल्यादिव्युदासाय विशेषणमाह संसार इत्यादि । संसारं चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः । तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन 15 तेषामेवाख्यातीत्येतद्दर्शयति-सम्बुध्यमानानां यथोपदिष्टं धर्मं सम्यगवबुध्यमानानाम् । छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां हिता-ऽहितप्राप्ति-परिहाराध्यवसायो विज्ञानम्, तत् प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः संज्ञिन इत्यर्थः । नागार्जुनीयास्तु पठन्ति आघाइ धम्मं खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं 20 १. ० कुल-रूप० ग घ । २. ह्यास्रवाः ग घ ङ । ३. परिस्रवाः घ । ४. ०माश्रवनिर्जरकाः ख घ ङ च, ०मास्रवकनिर्जरकाः ग । ५. पृथक् प्रवेदितम् ग छ। ६. सर्वहिताय ख । ७. अघा इत्यादि ख ग, आघाइ इत्यादि च । ८. केवलादि० ख । ९. ०व्यं तत् सूत्रे० घ ङ। १०. अघाइ ख । ११. स ख । १२. तं जहा इति पाठ: चूर्णी न ।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472