________________
३९१
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । एवं सम्यग्दर्शन-ज्ञान- चारित्राणि मोक्षमार्गः, मिथ्यात्वा - ऽविरति - प्रमाद-कषाय- योगा बन्धहेतवः, स्व-परभावेन सदसती, तत्त्वं सामान्य- विशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति । एकार्थिकानि वैतानीति । किं तद् 'एवमाचक्षते' इति ? दर्शयति यथा
सर्वे प्राणाः सर्व एव पृथिव्यप्तेजो - वायु-वनस्पतयो द्वि-त्रि- चतु:पञ्चेन्द्रियाश्च, इन्द्रिय-बलोच्छ्वास- निश्वासा -ऽऽयुष्कलक्षणप्राणधारणात् प्राणाः । तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतग्रामान्त:पातीनि । एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः नारकतिर्यङ्-नरा-: - ऽमरलक्षणाश्चतुर्गतिकाः । तथा सर्व एव स्वकृतसाताऽसातोदयसुख-दुःखभाजः सत्त्वाः । एकार्था वैते शब्दाः, 'तत्त्वभेदपर्यायैः प्रतिपादनम्' इति कृत्वेति ।
5
10
एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्या दण्ड- कशादिभिः, नाज्ञापयितव्याः प्रसह्याभियोगदानतः, न परिग्राह्या भृत्य - दास-दास्यादिममत्वपरिग्रहतः, न परितापयितव्याः शारीर- मानसपीडोत्पादनतः, नापद्राव- 15 यितव्याः प्राणव्यपरोपणतः ।
१. ०ऽऽस्त्रव० ग घ ङ ०ऽऽश्रव संवर- निर्जरा-बन्ध-मोक्ष० ख ०ऽऽश्रव-संवरबन्ध - निर्जरा० च । २. च इति गतौ न । ३. ०व्याः इति शारीर० ख - चप्रती विना । ४. ०पीडोत्पादनैः, नापद्रापयितव्याः ख । ५ ० धिग्जातीना० कपुस्तकमृते । ६. अप्रच्युतरूपः क। ७. पञ्चसु विदेहेषु ख च । ८. " न तु इति कूटस्थनित्यतां निराचष्टे, नित्यमपि सोऽपि न नित्यः " जै०वि०प० । ९. अभव्यत्ववत् ङ ।
एषः अनन्तरोक्तः धर्मः दुर्गत्यर्गला - सुगतिसोपानदेश्यः । अस्य च प्रधानपुरुषार्थत्वाद् विशेषणं दर्शयति-शुद्धः पापानुबन्धरहितः, न शाक्यधिग्जातीयनामिवैकेन्द्रिय-पञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः । तथा नित्यः अप्रच्युतिरूपः पञ्चस्वपि विदेहेषु सदाभवनात् । तथा शाश्वतः शाश्वतगति - 20 हेतुत्वात्, यदि वा नित्यत्वात् शाश्वतः, न तु नित्यं भूत्वा न भवति भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति ।