________________
३९२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
अमुं च लोकं जन्तुलोकं दुःखसागरावगाढं समेत्य ज्ञात्वा तदुत्तरणाय खेदज्ञैः जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः प्रतिपादित इति । एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं बभाषे । ऐनमेव सूत्रोक्तमर्थं नियुक्तिकार: सूत्रस्पर्शकेन गथाद्वयेन दर्शयति
जे जिणवरा अतीता जे संपइ जे अणागये काले । सव्वे वि ते अहिंसं वदिंसु वदिहिंति य वयेति ॥२२७॥ छ प्पि य जीवनिकाए णो वि हणे णो वि आहणावेज्जा । णो वि य अणुमन्नेज्जा सम्मत्तस्सेस निजुत्ती ॥२२८॥
जे जिणवरा० गाहा । छ प्पि य जीवनिकाये० गाहा । गाथाद्वयमपि 10 कण्ठ्यम् ॥२२७-२२८|| तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव
प्रवर्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते [इति?] तद्यथेत्यादिना दर्शयति-छ । ___तंजहा-उट्ठिएसु वा इत्यादि । धर्मचरणायोद्यता उत्थिताः ज्ञान-दर्शन
चारित्रोद्योगवन्तः, तद्विपर्ययेणाऽनुत्थिताः, तेषु निमित्तभूतेषु तानुद्दिश्य भगवता 15 सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः । एवं सर्वत्र लगयितव्यम् । यदि वा
उत्थिता-ऽनुत्थितेषु ,व्यतोऽपि निषण्णा-ऽनिषण्णेषु । तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्धमानस्वामिना धर्मः प्रवेदितः । तथा उपस्थिताः धर्म शुश्रूषवो जिघृक्षवो वा, तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं यथाचर्मणि द्वीपिनं हन्तीति । ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा
१. एनमेव च ख । २. सूत्रसंस्पर्शकेन ख घ ङ। ३. अतीया झ ञ ठ । ४. संपति ख ज । ५. अणागए क-खपुस्तके विना, अणागते ख । ६. वइंसु ठ । ७. वयिहिंति ब. वइहिंति ठ । ८. वि क, व छ । ९. वदिति ख, वयंति छ ज झ ञ, वदंति ठ । १०. निकाया छ ज झ, ०निकाये । ११. हणइ णो वि याहणावेज्जा ठ । १२. अणुमण्णिज्जा ख ठ । १३. ०त्ती ॥ चतुर्थप्रथमोद्देशकनियुक्तिः । झ, ०त्ती ॥ 5 (अ)० ४ उ० १॥ठ ॥ १४. जिणवर गपुस्तकं विना:। १५. निकाए च । १६. तानुपदिश्य ख । १७. द्रव्यतोऽप्यनिषण्ण-निषण्णेषु ख । १८. निलातपुत्रादि ।
.