SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति ? अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात् कर्मपरिणतेः क्षयोपशमापादनाद् गुणवत्येवेति यत्किञ्चिदेतत् । प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनो- वाक्- कायलक्षणः, उपरो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति । उपधीयते सङ्गृह्यत 5 इत्युपधिः, द्रव्यतो हिरण्यादिः, भावतो माया, सह उपधिना वर्तन्त इति सोपधिकाः, तद्विपर्ययेणानुपधिकाः, तेष्विति । संयोगः सम्बन्ध: पुत्र- -कलत्रमित्रादिजनितः तत्र रताः संयोगरताः, तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरताः, तेष्विति । ३९३ [सू०१३३ ] तच्चं चेतं तहा चेतं, अस्सि चेतं 10 पवुच्चति । तं इत्तु ण णिहे, ण णिक्खिवे, जाणित्तु धम्मं जहा तहा । दिट्ठेहिं णिव्वेयं गच्छेज्जा । णो लोगस्सेसणं चरे । जस्स णत्थि इमा णाती अण्णा तस्स कतो सिया । दिवं सुतं मयं विण्णायं जमेयं परिकहिज्जति । सममाणा पलेमाणा पुणो पुणो जातिं पकप्पेंती । अहो य रातो य जतमाणे धीरे सया आगतपण्णाणे, पत्ते बहिया पास । अप्पमत्ते सया परक्कमेज्जासि त्ति बेमि । ॥ सम्मत्तस्स पढमो उद्देसओ सम्मत्तो ॥ १. ० मापादानाद् क ग घ । २. आत्मानं दण्डयतीति वा दण्डः ख । ३. पुत्रकलत्रादि० क, पुत्र- मित्र - कलत्रादि० ख । ४. ०भावित्वाद् असंयोग० च । 15 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy