________________
३९४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तदेवमुभयरूपेष्वपि यद् भगवता धर्मदेशनाऽकारि तत् तथ्यं सत्यमेतदिति । चशब्द: नियमार्थः, तथ्यमेवैतद् भगवद्वचनम् । यथाप्ररूपितवस्तुसद्भावात् तथ्यता वचसो भवतीति अतो वाच्यमपि तथैवेति दर्शयति-तथा
चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि । एवं 5 सम्यग्दर्शनश्रद्धानं विधेयम् । एतच्च अस्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रपञ्चोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात् सर्वभूतानि' इत्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ।
___ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद् विधेयं तद् दर्शयति-तं 10 आइत्तु न निहे । तत् तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनम् आदाय गृहीत्वा
तत्कार्याकरणतः न निहे त्ति न गोपयेत् । तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणाद् न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे
निक्षिप्योत्प्रव्रजनम् एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत् न त्यजेत्, 15 किं कृत्वा ? यथा तथावस्थितं धर्मं ज्ञात्वा श्रुतधर्म-चारित्रात्मकमवगम्य, वस्तूनां वा धर्मं स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यात् ? इत्याह
दिद्रुहीत्यादि । दृष्टैरिष्टा-ऽनिष्टरूपैनिर्वेदं गच्छेत् विरागं कुर्यादित्यर्थः, तथाहि-शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातः स्पर्शः स्पृष्टैः सद्भिरेवं भावयेद्
यथा-शुभेतरता परिणामवशाद् भवतीत्यत: कस्तेषु रागो द्वेषो वा ? इति । 20 किञ्च–नो लोयस्स इत्यादि । लोकस्य प्राणिगणस्य एषणा अन्वेषणा
इष्टेषु शब्दादिषु प्रवृत्तिः, अनिष्टेषु तु हेयबुद्धिः, तां न चरेत् नाचरेन्न विदध्यात् ।
o
१. ०ता देशना० क च । २. यथास्थितवस्तु० क । ३. तस्मिन्नेव मौनीन्द्रे प्रवचने ख । ४. ०प्रबन्धोपरते घ ङ च । ५. हिंस्याद्भूतानि ख । ६. ०वधानुज्ञानात् ङ । ७. दर्शयितुमाह ख ग घ ङ। ८. आइत्तु इत्यादि । तत् ख । ९. निहे इत्यादि । तत् घ ङ। १०. ०श्रद्धानं सम्य० ख । ११. तत् कारणतः ख । १२. ०निमित्तोपस्थापित० ख । १३. श्रुतधर्मं चारित्रा० ङ च । १४. दिटेहिं इत्यादि घ, दिडेहि इत्यादि ङ । १५. च च । १६. चरेन्न विदध्यात् ग घ च ।