________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः
यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यशस्ता मतिर्नास्तीति दर्शयति— जस्स नत्थि इत्यादि । यस्य मुमुक्षोः इमा ज्ञातिः लोकैषणाबुद्धिः नास्ति इति न विद्यते तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ? इदमुक्तं भवति - भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात् तस्या इति । यदि वा इँमा अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः, प्राणिनो न हन्तव्या इति 5 वा ज्ञातिः यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठान-परिहारद्वारेण कुतः स्यात् ? शिष्यमतिस्थैर्यार्थमाह
३९५
दिट्ठमित्यादि । यदेतन्मया परिकथ्यते तत् सर्वज्ञैः केवलज्ञानावलोकेन दृष्टम्, तत् शुश्रूषुभिः श्रुतम्, लघुकर्मणां भव्यानां मतम्, ज्ञानावरणीयक्षयोपशमाद् विशेषेण ज्ञातं विज्ञातम् । अतो भवताऽपि सम्यक्त्वादिके 10 मत्कथितं यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुः ? इत्याह
समेमाणा इत्यादि । तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तः गौद्धना त्यर्थमासेवां कुर्वन्तः, तथा प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु पौनः पुण्येनैकेन्द्रियद्वीन्द्रियादिकां जातिं प्रकल्पयन्ति संसाराविच्छित्तिं विदधतीत्यर्थः
यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुण्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्तव्यम् ? इत्याह---
15
अहो य इत्यादि । अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि 'धीरः पॅरीषहोपसर्गाक्षोभ्यः सदा सर्वकालम् आगतं स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा । प्रमत्तान् संयतान् परतीर्थिकान् वा धर्माद् बहि-- 20
१. ० न्याप्यप्रशस्ता क खपुस्तके विना । २. नास्ति न विद्यते ख ग च । ३. इयं ग । ४. ज्ञातिः इति पाठ: खप्रतेरेव । ५. ० परिहारेण च । ६. दिवं इत्यादि ख च । ७. ०ज्ञानालोकेन क । ८. भाव्यमिति ख च । ९. कथं भवेयुः क, किम्भूता भवेयुः ख च । १०. ०न्तः निशाम्यन्तः गा० ख घ ङ । ११. गाद्धर्यं तात्पर्यमासेवां ग चप्रती विना । १२. ० नै केन्द्रियादिकां ग । १३. प्रलीयमाना: ग च । १४. ०न कृतजन्मादिसन्धाना ख च । १५. वीर: ग । १६. परीषहाक्षोभ्यः ख ।