________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वाद् अनन्ता अतिक्रान्ताः । अनागता अप्यनन्ता:, आगमिष्यत्कालस्यानन्तत्वात् तेषां सर्वदैव भावादिति । वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षयाऽनवस्थितत्वे सत्यप्युत्कृष्ट- जघन्यपदिन एव कथ्यन्ते । तंत्रोत्कृष्टतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतम्, तच्चैवम् – पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वाद् एकैकस्मिन् द्वात्रिंशद् द्वात्रिंशत्, पञ्चस्वपि भरतेषु पञ्च, एवमैरावतेष्वपीति । तत्र द्वात्रिंशत् पञ्चभिर्गुणिता षष्ट्युत्तरशतम्, भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति । जघन्यतस्तु विंशतिः, सा चैवम्पञ्चस्वपि विदेहेषु विदेहान्तर्महानद्युभयतटसद्भावात् तीर्थकृतां प्रत्येकं चत्वारः, ते च पञ्चभिर्गुणिता विंशतिः, भरतैरावतयोस्त्वेकान्तसुखमादावभाव एवेति । अन्ये तु 10 व्याचक्षते-मेरोः पूर्वा ऽपरविदेहैकैकसद्भावाद्, महाविदेहे द्वावेव, 'ततः पञ्चस्वपि दशैवेति, तथा च ते आहुःसत्तरसयमुक्कोसं यरे दस समयखेत्तजिणमाणं । चोत्तीस पढमदीवे अणंतरऽद्धे य ते णा ॥ [
]
के इमे ? – अर्हन्तः अर्हन्ति पूजा - सत्कारादिकमिति, तथा ऐश्वर्याद्युपेता 15 भगवन्तः । ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते । वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम् - एवमाचचक्षिरे एवमाख्यास्यन्ति । एवं सामान्यतः सदेव - मनुजायां परिषदि अर्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते । एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवा
5
३९०
१. ०त्वादियत्तामतिक्रान्ताः ख ग च । २. आगामिकालस्या० कप्रतिमृते । ३. ० त्वादिति । वर्तमानस्य च प्रज्ञापकापेक्षयाऽनवस्थितत्वे ख ० त्वादिति । वर्तमानतीर्थकृतां प्रज्ञापका ० च । ४. तेषां च सर्वदैव ग घ ङ । ५. तत्रोत्सर्गतः खपुस्तकं विना । ६. ०ता जाता षट्० ख । ७ षष्ट्युत्तरं शतम् ग च । ८. महाविदेहेषु कप्रतेविना । ९ तेऽपि पञ्चभि० खप्रतिमृते । १०. ० विदेहयोरेकैक० ग । ११. ततः इति पाठ: ग घप्रत्योरेव । १२. सत्तरिसय० ख । १३. इतरे च । १४. ० खित्त० ग । १५. " अणंतरद्धे यत(ते ) दूणा इति जम्बूद्वीपापेक्षया अनन्तर: धातु (त) कीखण्ड: अर्धं च पुष्करवरद्वीपार्धम्, तयोर्द्वयोरपि प्रथमद्वीपापेक्षया द्विगुणा भवन्ति, द्वयोरपि मिलिता १३६, प्रथमद्वीपप्रक्षेपे च १७०" जै०वि०प० । १६. दूण त्ति ख च, दुगुणा घ ङ । १७. ०णार्थमिदमेवमाचचक्षिरे त एवमाख्यास्यन्ति ख । १८. पर्षदि ख च । १९. ०स्वभाषया भाषन्ते ख ।