________________
10
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८९ तदेवं निरुपाधेर्दर्शनवतस्तपो-ज्ञान-चरणानि सफलानीति स्थितम् । अतो दर्शने यतितव्यम् । दर्शनं च तत्त्वार्थश्रद्धानम् । तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
[सू०१३२] से बेमि-जे य अतीता जे य पडुप्पण्णा 5 जे य आगमिस्सा अरहंता भगवंता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परितावेयव्वा, ण उद्दवेयव्वा । ____एस धम्मे सुद्धे णितिए सासए समेच्च लोयं खेतण्णेहिं पवेदिते । तं जहा-उट्ठिएसु वा अणुट्ठिएसु वा, उवट्ठिएसु वा अणुवट्ठिएसु वा, उवरतदंडेसु वा अणुवरतदंडेसु वा, सोवधिएसु वा अणुवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा ।
से बेमीत्यादि सूत्रम् । गौतमस्वाम्याह यथा-सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति । यदि वा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरः । यदि वा सेशब्दस्तच्छब्दार्थे, यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमि । ये अतीता: अतिक्रान्ताः, ये च प्रत्युत्पन्नाः वर्तमानकालभाविनः ये चागामिनस्त 20 एवं प्ररूपयन्तीति सम्बन्धः ।
5
१. निरुपाधिदर्शन० ग च । २. से बेमि इत्यादि सूत्रम् । सोऽहं ख । ३. तीर्थङ्कर० ग। ४. शिक्षाभिमत० च । ५. ०मद्याभिब्रवीमि क । ६. ये आगामिन० ख ।