SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ૩૮૮ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शैलेश्यवस्थोऽसङ्ख्येयगुणनिर्जरकः। ___ तदेवं कर्मनिर्जरायै असङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्ख्येयगुणा । उत्तरोत्तरप्रवर्धमानाध्यवसायकण्डकोपपत्तेरिति । कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया असङ्ख्येयगुणया श्रेण्या नेयः । इदमुक्तं भवति यावता कालेन यावत्कर्माऽयोगिकेवली क्षपयति तावन्मात्रं कर्म सयोगिकेवली सङ्ख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावन्नेयमिति गाथाद्वयार्थः ॥२२४-२२५॥ एवमन्तरीक्तया नीत्या दर्शनवतः सफलानि तपो-ज्ञान-चरणान्यभिहि10 तानि । यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः । कश्चासावुपाधिः ? तमाह आहार-उवहि-पूया-इड्डीसु य गारवेसु कंइतवियं । एमेव बारसविहे तवम्मि न हु केइतवे समणो ॥२२६॥ आहार० गाहा । आहारश्च उपधिश्च पूजा च ऋद्धिश्च आमर्पोषध्यादिका 15 आहारोपधि-पूजर्द्धयस्तासु निमित्तभूतासु ज्ञान-चरणक्रियां करोति । तथा गारवेषु त्रिषु प्रतिबद्धो यत् करोति तत् कृत्रिममित्युच्यते । यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति । न च कृत्रिमानुष्ठायिनः श्रमणभावः, न चाश्रमणस्यानुष्ठानं गुणवदिति ॥२२६।। १. ०गुणो निर्जरकः ङ। २. ०लोकाकाशप्रमाणप्रतिपादितसंयम० ख । ३. ज्ञेयः घ ङ च । ४. यावन्मात्रकालानु( म )योगिकेवली गुणश्रेणी रचयति तत: सङ्ख्येयगुणकालां सयो[ गि केवली रचयतीति एवं प्रतिलोमतया ख, यावत्कालेन घ ङ च । ५. सयोगी केवली ङ। ६. ०द्धर्मपिपृच्छिषु० ख। ७. “यदि पुनः इति दर्शनवानपि सन्' जै०वि०प० । ८. आहार-इड्डि-पूआ-उवहीसु य ख ठ। ९. कतितवियं ख, कयतवियं ज । १०. ०विधे ज। ११. कतितवे ख ज, केयवं च । १२. च इति गप्रतौ न । १३. ०नं तन्न फलवद्भवति ख । १४. च इति घपुस्तके नास्ति ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy