________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८७ खवए य खीणमोहे जिणे य सेढी भवे असंखेज्जा । तव्विवरीओ कालो संखेज्जगुणाए सेढीए ॥२२५॥
सम्मत्तुप्पत्ती० गाहा । खवए य० गाहा । सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसङ्ख्येयगुणा श्रेणिर्भवेदित्युत्तरगाथार्धान्ते क्रियामपेक्ष्य सम्बन्धो लगयितव्यः । कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ? 5 अत्रोच्यते-इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञस्तेभ्योऽसङ्ख्येयगुणनिर्जरकः । ततो पिपृच्छिषुः सन् साधुसमीपं जिगमिषुः । तस्मादपि क्रियाविष्टः पृच्छन् । अतोऽपि धर्मं प्रतिपित्सुः । अस्मादपि क्रियाविष्टः प्रतिपद्यमानः । तस्मादपि पूर्वप्रतिपन्नोऽसङ्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिर्व्याख्याता।
तदनन्तरं विरताविरतिं प्रतिपित्सु-प्रतिपद्यमान-पूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्ख्ये यगुंणा निर्जरा योज्या । एवं सर्वविरतावपीति । ततोऽपि पूर्वप्रतिपन्नसर्वविरते: सकाशात् अणंतकम्मंसे त्ति पदैकदेशे पदप्रयोग इति यथा भीमसेनो भीमः, सत्यभामा भामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः भागाः, तांश्चिक्षपयिषुरसङ्ख्येयगुणनिर्जरकः । 15 ततोऽपि क्षपकः । तस्मादपि क्षीणानन्तानुबन्धिकषायः । एतदेव दर्शनमोहनीयत्रयेऽभिमुख-क्रियारूढाऽपवर्गत्रयमायोज्यम् । ततोऽपि क्षीणसप्तकात् क्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः । ततोऽप्युपशान्तमोहः । तस्मादपि चारित्रमोहनीयक्षपकः । ततोऽपि क्षीणमोहः । अत्र चाभिमुखादित्रयं यथा-सम्भवमायोजनीयम् । अस्मादपि जिनः भवस्थकेवली । तस्मादपि 20
१. खवगे । २. असंखिज्जा ठ । ३. तविवरीतो ब । ४. संखिज्ज० ठ । ५. ०गुणश्रेणि० ख । ६. ०कोटिकोटीकर्म० ङ । ७. ०स्थितिकाश्च ग्रन्थिक० च । ८. ०संज्ञास्तेभ्योऽसङ्ख्येयगुणनिर्जरकाः । ततोऽपि पिपृच्छिषुः क-खपुस्तके विना । ९. सत्साधुसमीपं ख ङ च, स साधु० ग । १०. ततोऽपि ग च । ११. धर्मप्रतिपित्सुः घ ङ। १२. प्रतिपद्यमानक: ख । १३. ०क्त्वोत्पत्तिव्याख्या ख. ०क्त्वोत्पत्ति( त्ते? )र्व्याख्या ग । १४. गुणनिर्जरा ख ग ङ च । १५. भीमो भीमसेनः, सत्या सत्यभामा एव० ख । १६. तदेव ङ। १७. "अपवर्ग इति समाप्तिः ।" जै०वि०प० ।