________________
३८६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाहकुणमाणो वि णिवित्तिं परिच्चयंतो वि सयण-धण-भोए । दिन्तो वि दुहस्स उरं मिच्छद्दिट्टी ण सिज्झइ उ॥२२२॥
कुणमाणो० गाहा । कुर्वन्नपि निवृत्तिम् अन्यदर्शनाभिहिताम्, तद्यथा5 ‘पञ्च यमाः, पञ्च नियमाः' इत्यादिकाम्, तथा परित्यजन्नपि स्वजन-धन
भोगान्, पञ्चाग्नितपआदिना दददपि दुःखस्योरः, मिथ्यादृष्टिर्न सिध्यति । तुः अवधारणे नैव सिध्यति, दर्शनविकलत्वाद् अन्धकुमारवदसमर्थः कार्यसिद्धये । यत एवं ततः किं कर्तव्यम् ? इत्याह
तम्हा कम्माणीयं जेउमणो दंसणम्मि पयएज्जा । दसणवयो हि सफलाणि होति तव-णाण-चरणाइं ॥२२३॥
तम्हा० गाहा । यस्मात् सिद्धिमार्गमूलास्पदसम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात् तस्मात् कारणात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत । तस्मिंश्च सति यद् भवति तद् दर्शयति-दर्शनवतो हि, हिः हेतौ, यस्मात् सम्यग्दर्शनिनः
सफलानि भवन्ति तपो-ज्ञान-चरणानि, अतस्तत्र यत्नवता भाव्यमिति गाथार्थः 15 ॥२२३।।
प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह
सम्मत्तुप्पत्ती सावए य विरए अणंतकम्मंसे । दंसणमोहक्खमए उवसामंते य उवसंते ॥२२४॥
१४
१. णियत्तिं क-अप्रती विना । २. देंतो छ ज, दितो ख ठ, दंतो झ ञ । ३. हु ख छ ज ठ । ४. पययेज्जा ञ, पयइज्जा ठ । ५. सणवतो ख ञ दंसणवओ ज झ ठ । ६. ०चरणाणि । ७. ०मूलास्पदं ग घ ङ च । ८. हि: इति ख-गप्रत्योास्ति, हि ङ। ९. सम्यग्दर्शनेन सफलानि क । १०. गाथार्थः इति पाठः खप्रतौ न । ११. सम्यक्त्वस्य ख । १२. सावओ क. सावते ज । १३. यऽणंतकम्मंसे क ठ । १४. ०क्खवमो ।