SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८५ तत्र चतुर्विधज्ञानावरणीयक्षयोपशमाद् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम् । समस्तक्षयात् क्षायिकं केवलज्ञानमिति ।।२२०।। तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो यदिहाध्ययने व्यावर्ण्यते ? उच्यते-तद्भावभावित्वादितरयोः, तथाहि-मिथ्यादृष्टस्ते न स्तः । 5 अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बाला-ऽङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते, तद्यथा उदयसेनस्य राज्ञो वीरसेन-सूरसेनकुमारद्वयम् । तत्र वीरसेनोऽन्धः । स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः । इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाघ्यां पदवीमगमत् । एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथा- 10 अहमपि धनुर्वेदाभ्यासं विदधे । राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः । ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे । तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणाऽगणितचक्षुर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात् परबलोपस्थाने सति राजा युद्धायादेशं याचितः । तेनापि याच्यमानेन वितेरे । वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे । 15 परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जगृहे । सूरसेनेन च विदितवृत्तान्तेन राजानमापृच्छ्य निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञान-क्रियोऽपि चक्षुर्विकलत्वाद् नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाह कणमाणो वि य किरियं परिच्चयंतो वि सयण-धण-भोए । 20 दितो वि दुहस्स उरंण जिणइ अंधो पराणीयं ॥२२१॥ कुणमाणो० गाहा । कुर्वन्नपि क्रियां परित्यजन्नपि स्वजन-धनभोगान् दददपि दुःखस्योर: न जयत्यन्धः परानीकमिति गाथार्थः ॥२२१॥ १. ०द्यवबोधनार्थं ग च । २. उदयवर्मणो राज्ञो ग, उदयसेनराज्ञो ग ङ। ३. च इति खप्रतौ न । ४. ०चक्षुर्दर्शनासद्भावेन ग । ५. युद्धादेशं ग । ६. शब्दवेधितया ख । ७. ०शरजाला० क । ८. दंतो ख झ, देंतो ज ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy