________________
३८४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे नोपमर्दाय उपभोक्ता मन:प्रीतये पय:शर्करयोरिव तत् संयुक्तद्रव्यसम्यक् ३। तथा यत् प्रयुक्तं द्रव्यं लाभहेतुत्वाद् आत्मनः समाधानाय प्रभवति तत् प्रयुक्तद्रव्यसम्यक्, पाठान्तरं वा उवउत्त त्ति यत् उपयुक्तम् अभ्यवहृतं द्रव्यं
मन:समाधानाय प्रभवति तद् उपयुक्तद्रव्यसम्यक् ४। तथा जढं परित्यक्तं यद् 5 भारादि तत् त्यक्तद्रव्यसम्यक् ५। तथा दधिभाजनादि भिन्नं सत्
काकादिसमाधानोत्पत्तेः भिन्नद्रव्यसम्यक् ६। तथाऽधिकमांसादिच्छेदात् च्छिन्नद्रव्यसम्यक् ७। सर्वमप्येतत् समाधानकारणत्वाद् द्रव्यसम्यक, विपर्ययादसम्यगिति गाथार्थः ॥२१९॥ भावसम्यक्प्रतिपादनायाह
तिविहं तु भावसम्मं दंसण नाणे तहा चरित्ते य । 10 दंसण-चरणे तिविहे नाणे दुविहं तु नायव्वं ॥२२०॥
तिविहं० गाहा । त्रिविधं भावसम्यग् दर्शन-ज्ञान-चारित्रभेदात् । पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शन-चरणे प्रत्येकं त्रिविधे, तद्यथाअनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मदेशोनसागरोपम
कोटीकोटिस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं 15 विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनम्, उक्तं च
ऊसरदेसं दड्डल्लयं वि विज्झाइ वणदवो पप्प ।। इय मिच्छत्ताणुदये उवसमसम्मं लहइ जीवो ॥ []
उपशमश्रेण्यां वौपशमिकमिति १। तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसाय: क्षायोपशमिकम् २। दर्शनमोहनीयक्षयात् क्षायिकम् ३। 20 चारित्रमप्युपशमश्रेण्यामौपशमिकम् १, कषायक्षयोपशमात् क्षायोपशमिकम् २, चारित्रमोहनीयक्षयात् क्षायिकम् ३।
ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा-क्षायोपशमिकं क्षायिकं च ।
च । २. ०च्छेदे च्छिन्न० ख । ३. च्छिन्नसम्यक् कपुस्तकं विना । ४. समाधानकारित्वाद् ग । ५. नास्तीयमुत्थानिका गप्रतौ । ६. तिविहं ख छ झ ठ, तिविहं दुविहं णाणे उ नायव्वं ज। ७. ०कर्मणो देशोन० ग च । ८. व्व ग, च घ ङ च । ९. ०णुदए ख घ ङ च । १०. क्षायिकमिति ३ ख ङ ।