________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः
वचनेन नियमनं भणितं संयम उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तम्, द्वितीये सम्यग्ज्ञानम्, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति । तैस्मात् चशब्दः हेतौ यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्माद् ज्ञान-दर्शन-तपश्चरणेषु मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ २१६ - २१७।।
अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह
नामं ठवणा सम्मं दव्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउव्विहो होइ ॥२१८॥
३८३
नामं० ० गाहा । अक्षरार्थः सुगमः ॥२१८॥ भावार्थं तु सुगमनाम-स्थापनाव्युदासेन द्रव्य-भावगतं नियुक्तिकारः प्रतिपिपादयिषुराह—
अह देव्वसम्म इच्छाणुलोमयं ते ते देव्वे | कय संखय संजुत्ती पउत्त जढ भिन्न छिण्णं च ॥ २१९॥
5
१. द्वितीये तु सम्य० क ग । २. तृतीयेऽज्ञानितपो ख च । ३. तस्माच्च चशब्द: ग । ४. निक्खेवो चउविहो ख ज । ५. दव्वसम्ममिच्छा० ज ठ । ६. दव्वेसुं छ । ७. संजुत्तोपत्त कप्रतिमृते । ८. वा ख छ ज ठ । ९. तत्र तेष्विच्छा - विशेषभाक्षु द्रव्येषु कृताद्युपाधि० ख । १०. तेष्विच्छानुकूल्य० ग । ११ तस्य च यथा० ख । १२. कृतस्तस्य ख ग । १३. • हेतुत्वाद् द्रव्य० च । १४. ० संस्कारादिति घ ङ च ।
10
अह दव्व० गाहा । अथ इत्यानन्तर्ये, ज्ञशरीर - भव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह-ऐच्छानुलोमिकम्, इच्छा चेतः प्रवृत्ति: अभिप्रायस्त- 15 स्यानुलोमम् अनुकूलम् तत्र भवमैच्छानुलोमिकम् । तच्च तेषु तेष्विच्छाभावानुकूल्यताभाक्षु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथा - कृतम् अपूर्वमेव निर्वर्तितं रथादि, 'तँस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक् कर्तुस्तन्निमित्तचित्तुस्वास्थ्योत्पत्तेः, यदर्थं वा कृतं तस्य शोभनाऽऽशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यक् १ | एवं संस्कृतेऽपि योज्यम्, तस्यैव रथादेर्भग्न- 20 जीर्णाऽपोढापरावयवसंस्करणादिति २। तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय
१३