SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उक्तं तृतीयमध्ययनम् । साम्प्रतं चतुर्थमारभ्यते । अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वय - व्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवा - ऽजीवपदार्थद्वयं व्युदपादि, तद्वधे बन्धं विरतिं च भणताऽऽश्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यते 5 इति वदता बन्ध-निर्जर गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहा: सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम्, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्योपक्रमेऽर्थाधिकारो द्वेधा । तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः 10 शस्त्रपरिज्ञायां प्रागेवाभाणि । उद्देशकार्थाधिकारप्रतिपादनाय तु निर्युक्तिकार आह 15 ३८२ पढमे सम्मावाओ बितिए धम्मप्पवादियपरिक्खा । इए अणवज्जतवो न हु बालतवेण मोक्खो त्ति ॥ २१६ ॥ 'उसे उ चउत्थे समासवयणेण नियमणं भणियं । तम्हा य नाण-दंसण - तव चरणे होइ जइयव्वं ॥ २९७ ॥ पैढमे इत्यादि गाथा | उद्देसम्म गाहा । प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग् अविपरीतो वादः सम्यग्वाद: यथावस्थितवस्त्वाविभवनम् । द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्मं प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिका: धर्मप्रावादुका इत्यर्थ:, तेषां परीक्षा युक्ता20 ऽयुक्तविचारणमिति । तृतीयेऽनवद्यतपोव्यावर्णनम्, न च बालतपसा अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः । चतुर्थोद्देशके तु समासवचनेन सङ्क्षेप १. व्युत्पादितम्, तद्वधे च । २. तद्बधे च बन्धं ग । ३. ०ऽऽस्त्रव० ग घ च । ४. यद्वा मुच्यते । ५. तुख । ६. तदनेन ख । ७. द्वेधा । अध्ययना० ख । ८. उद्देशार्था० ख ग च । ९. बिइए ख ज झ ठ, बीए ञ । १०. ०प्पवाइय० ख छ ज झ ठ ०प्पवातिय० ञ । ५१. ततिते ञ । १२. मुक्खो ज झ, मुक्ख ठ । १३. उद्देसम्म चउत्थे क - छप्रती विना । १४. य छ । १५. होति जतियव्वं । १६. पढमे गाहा । ख च । १७. अज्ञानतप० ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy