Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८५ तत्र चतुर्विधज्ञानावरणीयक्षयोपशमाद् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम् । समस्तक्षयात् क्षायिकं केवलज्ञानमिति ।।२२०।।
तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो यदिहाध्ययने व्यावर्ण्यते ? उच्यते-तद्भावभावित्वादितरयोः, तथाहि-मिथ्यादृष्टस्ते न स्तः । 5 अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बाला-ऽङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते, तद्यथा
उदयसेनस्य राज्ञो वीरसेन-सूरसेनकुमारद्वयम् । तत्र वीरसेनोऽन्धः । स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः । इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाघ्यां पदवीमगमत् । एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथा- 10 अहमपि धनुर्वेदाभ्यासं विदधे । राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः । ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे । तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणाऽगणितचक्षुर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात् परबलोपस्थाने सति राजा युद्धायादेशं याचितः । तेनापि याच्यमानेन वितेरे । वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे । 15 परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जगृहे । सूरसेनेन च विदितवृत्तान्तेन राजानमापृच्छ्य निशितशरशतजालावष्टब्धपरानीकेन मोचितः ।
तदेवमभ्यस्तविज्ञान-क्रियोऽपि चक्षुर्विकलत्वाद् नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाह
कणमाणो वि य किरियं परिच्चयंतो वि सयण-धण-भोए । 20 दितो वि दुहस्स उरंण जिणइ अंधो पराणीयं ॥२२१॥
कुणमाणो० गाहा । कुर्वन्नपि क्रियां परित्यजन्नपि स्वजन-धनभोगान् दददपि दुःखस्योर: न जयत्यन्धः परानीकमिति गाथार्थः ॥२२१॥
१. ०द्यवबोधनार्थं ग च । २. उदयवर्मणो राज्ञो ग, उदयसेनराज्ञो ग ङ। ३. च इति खप्रतौ न । ४. ०चक्षुर्दर्शनासद्भावेन ग । ५. युद्धादेशं ग । ६. शब्दवेधितया ख । ७. ०शरजाला० क । ८. दंतो ख झ, देंतो ज ।

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472