Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
૩૮૮
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शैलेश्यवस्थोऽसङ्ख्येयगुणनिर्जरकः।
___ तदेवं कर्मनिर्जरायै असङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्ख्येयगुणा । उत्तरोत्तरप्रवर्धमानाध्यवसायकण्डकोपपत्तेरिति । कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया असङ्ख्येयगुणया श्रेण्या नेयः । इदमुक्तं भवति यावता कालेन यावत्कर्माऽयोगिकेवली क्षपयति तावन्मात्रं कर्म सयोगिकेवली सङ्ख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावन्नेयमिति गाथाद्वयार्थः ॥२२४-२२५॥
एवमन्तरीक्तया नीत्या दर्शनवतः सफलानि तपो-ज्ञान-चरणान्यभिहि10 तानि । यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः । कश्चासावुपाधिः ? तमाह
आहार-उवहि-पूया-इड्डीसु य गारवेसु कंइतवियं । एमेव बारसविहे तवम्मि न हु केइतवे समणो ॥२२६॥
आहार० गाहा । आहारश्च उपधिश्च पूजा च ऋद्धिश्च आमर्पोषध्यादिका 15 आहारोपधि-पूजर्द्धयस्तासु निमित्तभूतासु ज्ञान-चरणक्रियां करोति । तथा गारवेषु त्रिषु प्रतिबद्धो यत् करोति तत् कृत्रिममित्युच्यते । यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति । न च कृत्रिमानुष्ठायिनः श्रमणभावः, न चाश्रमणस्यानुष्ठानं गुणवदिति ॥२२६।।
१. ०गुणो निर्जरकः ङ। २. ०लोकाकाशप्रमाणप्रतिपादितसंयम० ख । ३. ज्ञेयः घ ङ च । ४. यावन्मात्रकालानु( म )योगिकेवली गुणश्रेणी रचयति तत: सङ्ख्येयगुणकालां सयो[ गि केवली रचयतीति एवं प्रतिलोमतया ख, यावत्कालेन घ ङ च । ५. सयोगी केवली ङ। ६. ०द्धर्मपिपृच्छिषु० ख। ७. “यदि पुनः इति दर्शनवानपि सन्' जै०वि०प० । ८. आहार-इड्डि-पूआ-उवहीसु य ख ठ। ९. कतितवियं ख, कयतवियं ज । १०. ०विधे ज। ११. कतितवे ख ज, केयवं च । १२. च इति गप्रतौ न । १३. ०नं तन्न फलवद्भवति ख । १४. च इति घपुस्तके नास्ति ।

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472