Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 422
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८७ खवए य खीणमोहे जिणे य सेढी भवे असंखेज्जा । तव्विवरीओ कालो संखेज्जगुणाए सेढीए ॥२२५॥ सम्मत्तुप्पत्ती० गाहा । खवए य० गाहा । सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसङ्ख्येयगुणा श्रेणिर्भवेदित्युत्तरगाथार्धान्ते क्रियामपेक्ष्य सम्बन्धो लगयितव्यः । कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ? 5 अत्रोच्यते-इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञस्तेभ्योऽसङ्ख्येयगुणनिर्जरकः । ततो पिपृच्छिषुः सन् साधुसमीपं जिगमिषुः । तस्मादपि क्रियाविष्टः पृच्छन् । अतोऽपि धर्मं प्रतिपित्सुः । अस्मादपि क्रियाविष्टः प्रतिपद्यमानः । तस्मादपि पूर्वप्रतिपन्नोऽसङ्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिर्व्याख्याता। तदनन्तरं विरताविरतिं प्रतिपित्सु-प्रतिपद्यमान-पूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्ख्ये यगुंणा निर्जरा योज्या । एवं सर्वविरतावपीति । ततोऽपि पूर्वप्रतिपन्नसर्वविरते: सकाशात् अणंतकम्मंसे त्ति पदैकदेशे पदप्रयोग इति यथा भीमसेनो भीमः, सत्यभामा भामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः भागाः, तांश्चिक्षपयिषुरसङ्ख्येयगुणनिर्जरकः । 15 ततोऽपि क्षपकः । तस्मादपि क्षीणानन्तानुबन्धिकषायः । एतदेव दर्शनमोहनीयत्रयेऽभिमुख-क्रियारूढाऽपवर्गत्रयमायोज्यम् । ततोऽपि क्षीणसप्तकात् क्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः । ततोऽप्युपशान्तमोहः । तस्मादपि चारित्रमोहनीयक्षपकः । ततोऽपि क्षीणमोहः । अत्र चाभिमुखादित्रयं यथा-सम्भवमायोजनीयम् । अस्मादपि जिनः भवस्थकेवली । तस्मादपि 20 १. खवगे । २. असंखिज्जा ठ । ३. तविवरीतो ब । ४. संखिज्ज० ठ । ५. ०गुणश्रेणि० ख । ६. ०कोटिकोटीकर्म० ङ । ७. ०स्थितिकाश्च ग्रन्थिक० च । ८. ०संज्ञास्तेभ्योऽसङ्ख्येयगुणनिर्जरकाः । ततोऽपि पिपृच्छिषुः क-खपुस्तके विना । ९. सत्साधुसमीपं ख ङ च, स साधु० ग । १०. ततोऽपि ग च । ११. धर्मप्रतिपित्सुः घ ङ। १२. प्रतिपद्यमानक: ख । १३. ०क्त्वोत्पत्तिव्याख्या ख. ०क्त्वोत्पत्ति( त्ते? )र्व्याख्या ग । १४. गुणनिर्जरा ख ग ङ च । १५. भीमो भीमसेनः, सत्या सत्यभामा एव० ख । १६. तदेव ङ। १७. "अपवर्ग इति समाप्तिः ।" जै०वि०प० ।

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472