Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः
३७७
पादानकारणं वा यान्ति गच्छन्ति वीराः कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानं चारित्रम्, तच्चानेकभवकोटिदुर्लभम् लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते महच्च तद् यानं च महायानम्, यदि वा महद्यानं सम्यग्दर्शनादित्रयं यस्य स महायान: मोक्षस्तं यान्तीति सम्बन्धः । स्यात् किमेकेनैव भवेनावाप्त- 5 महायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण ? उभयथाऽपि ब्रूमः, तद्यथा— अवाप्ततद्योग्यक्षेत्र-कालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिः । अपरस्य त्वन्यथेति दर्शयति
परेण परमित्यादि । सम्यक्त्वप्रतिषिद्धनरक - तिर्यग्गतयो ज्ञानावाप्तयथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति । 10 ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्र - सुकुलोत्पत्त्या -ऽऽरोग्य-श्रद्धा-श्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति । पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयम भावस्याशेषकर्मक्षयाद् मोक्षः । तदेवं परेण संयमेनोद्दिष्टविधिना परं स्वर्गं पारम्पर्येणापवर्गमपि यान्ति । यदि वा परेण सम्यग्दृष्टिगुणस्थानेन परं देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधि - 15 तिष्ठन्ति । परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति । एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद् गतं किं वा शेषम् ? इत्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति । यदि वा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च
जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कैस्स तेयलेस्सं
१. धीराः घ ङप्रती विना । २. ०पि क्रम:, तथा चावाप्त० क । ३. अवाप्तयोग्य० ङ अवाप्ततद्योगक्षेत्र० च । ४ परं इत्यादि ख च । ५. ० नरकगति तिर्य० घ ङ । ६. ज्ञानावाप्तियथा ० ख ग च विना । ७. ०भावस्य शेष० ग । ८. ० पर्यन्तगुण० ख ग च । ९. ०जीवितं ख । १०. नाकाङ्क्षन्तीति घ च । ११. ०त्युत्तरोत्तरं ख । १२. “ तेजोलेश्याम् इति सुखलेश्य (श्या) म्" जै०वि०प० । १३. " अज्झत्ता[ ए ] इति अज्झत्तया " जै०वि०प० । १४. कस्स इति देवादेः " जै०वि०प० । १५. तेयालेस्सं क. तेउल्लेस्सं ख, तेअलेस्सं ङः ।
20

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472