Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 410
________________ प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः ३७५ अस्थि सत्थं परेण परं, णत्थि असत्थं परेण परं। जे एगं जाणइ इत्यादि । यः कश्चिदविशेषितः एकं परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्व-परपर्यायं वा जानाति परिच्छिनत्ति स सर्वं स्व-परपर्यायं जानाति, अतीता-ऽनागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वात् । इदमेव हेतुहेतुमद्भावेन लगयितुमाह जे सव्वमित्यादि । यः सर्वं संसारोदरविवरवर्ति वस्तु जानीते स एकं घटादि वस्तु जानाति, तस्यैवातीता-ऽनागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम् एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वा वि । तीया-ऽणागयभूया तावइयं तं हवइ दव्वं ॥ [ ] 10 तदेवं सर्वज्ञस्तीर्थकृत् । सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति सव्वओ इत्यादि । सर्वतः सर्वप्रकारेण द्रव्यादिना यद् भैयकारि कर्मोपादीयते ततः प्रमत्तस्य मद्यादिप्रमादवतः भयं भीतिः, तद्यथा-प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः, क्षेत्रतः षदिग्व्यवस्थितम, कालतो- 15 ऽनुसमयम्, भावतो हिंसादिभिः । यदि वा सर्वतः सर्वत्र भयमिहामुत्र च । एतद्विपरीतस्य च नास्ति भयमिति । आह च सव्वओ इत्यादि । सर्वतः ऐहिका-ऽऽमुष्मिकापायात् अप्रमत्तस्य आत्महितेषु जाग्रतो नास्ति भयं संसारापशदात् सकाशात् कर्मणो वा । १. ०ति परिच्छिनत्ति, अतीता० ख । २. सव्वं इत्यादि ख । ३. जानाति ग घ ङ। ४. जानीते ख । ५. ०स्तत्स्वभावा० क । ६. "अत्थपज्जवा इति यावद्भिर्घट-पटादिभिः पर्यायः परमाण्वादिकं वस्तु परिणतम्'' जै०वि०प० । ७. ०भूता तावइयं हवति तं दव्वं ख । ८. "तावइयमिति अनन्तम्''जै०वि०प० । ९. तदेवं तीर्थकृत् सर्वज्ञः । सर्वज्ञश्च ग । १०. सव्व इत्यादि ख । ११. भयकारणं ख ग। १२. तत् क । १३. वा सर्वत्र सर्वतो भय० ख, वा सर्वतोऽत्र सर्वतो भयं० घ ङ, वा सर्वतो भय० ग । १४. सर्वतो भय० क । १५. संसारापसदात् घ ङ ।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472