________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः ३७५ अस्थि सत्थं परेण परं, णत्थि असत्थं परेण परं।
जे एगं जाणइ इत्यादि । यः कश्चिदविशेषितः एकं परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्व-परपर्यायं वा जानाति परिच्छिनत्ति स सर्वं स्व-परपर्यायं जानाति, अतीता-ऽनागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वात् । इदमेव हेतुहेतुमद्भावेन लगयितुमाह
जे सव्वमित्यादि । यः सर्वं संसारोदरविवरवर्ति वस्तु जानीते स एकं घटादि वस्तु जानाति, तस्यैवातीता-ऽनागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्
एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वा वि । तीया-ऽणागयभूया तावइयं तं हवइ दव्वं ॥ [ ]
10 तदेवं सर्वज्ञस्तीर्थकृत् । सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति
सव्वओ इत्यादि । सर्वतः सर्वप्रकारेण द्रव्यादिना यद् भैयकारि कर्मोपादीयते ततः प्रमत्तस्य मद्यादिप्रमादवतः भयं भीतिः, तद्यथा-प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः, क्षेत्रतः षदिग्व्यवस्थितम, कालतो- 15 ऽनुसमयम्, भावतो हिंसादिभिः । यदि वा सर्वतः सर्वत्र भयमिहामुत्र च । एतद्विपरीतस्य च नास्ति भयमिति । आह च
सव्वओ इत्यादि । सर्वतः ऐहिका-ऽऽमुष्मिकापायात् अप्रमत्तस्य आत्महितेषु जाग्रतो नास्ति भयं संसारापशदात् सकाशात् कर्मणो वा ।
१. ०ति परिच्छिनत्ति, अतीता० ख । २. सव्वं इत्यादि ख । ३. जानाति ग घ ङ। ४. जानीते ख । ५. ०स्तत्स्वभावा० क । ६. "अत्थपज्जवा इति यावद्भिर्घट-पटादिभिः पर्यायः परमाण्वादिकं वस्तु परिणतम्'' जै०वि०प० । ७. ०भूता तावइयं हवति तं दव्वं ख । ८. "तावइयमिति अनन्तम्''जै०वि०प० । ९. तदेवं तीर्थकृत् सर्वज्ञः । सर्वज्ञश्च ग । १०. सव्व इत्यादि ख । ११. भयकारणं ख ग। १२. तत् क । १३. वा सर्वत्र सर्वतो भय० ख, वा सर्वतोऽत्र सर्वतो भयं० घ ङ, वा सर्वतो भय० ग । १४. सर्वतो भय० क । १५. संसारापसदात् घ ङ ।