SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३७४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कर्म येन तद् आदानं हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेर्निमित्तत्वात् कषाया वाऽऽदानं तद्वमिता स्वकृतभिद् भवति, स्वकृतम् अनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः । तीर्थकरोपदेशेनापि पैरकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणम् । तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् । ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ, न सर्वज्ञ इति सङ्गरामहे एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन्न सतां मनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिता -ऽहित10 प्राप्ति - परिहारोपदेशासम्भवः । यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह 5 15 20 [सू०१२९] जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं जाणति । सव्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स णत्थि भयं । जे गणामे से बहुणामे, जे बहुणामे से एगणामे । दुक्खं लोगस्स जाणित्ता, वंता लोगस्स संजोगं, जंति वीरा महाजाणं । परेण परं जंति, णावकंखंति जीवितं । एगं विगिंचमाणे पुढो विगिंचइ, पुढो विगिंचमाणे एगं विगिंड़ सड्डी आणाए मेधावी । लोगं च आणाए अभिसमेच्चा अकुतोभयं । १. स्वकृतभित् इति पाठो गप्रतौ न । २. परकृतकर्मोपा ( प ? ) क्षपणो ० ख । ३. परकृतक्षपणोपायो न चाज्ञायीति ख । ४. ०व्यापित्वेनास्थानात् ग । ५. ०कर्तृकत्वेन ङ । ६. तीर्थकरोपपत्तेः, तदेव न सतां ख । ७. दर्शयति-जे एगं ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy