________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः ३७३ क्रोध-मान-माया-लोभवमनादेव पारमार्थिकः श्रमणभावः, न तत्सम्भवे सति, यत उक्तम्
सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुपुकं व निष्फलं तस्स सामण्णं ॥ जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेत्तो हारेइ नरो मुहत्तेणं ॥ [ स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह
एयमित्यादि । एतत् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं सर्वं निरावरणत्वात् पश्यति उपलभते इति पश्यः, स एव पश्यकः तीर्थकृत् श्रीवर्धमानस्वामी तस्य दर्शनम् अभिप्रायः । यदि वा दृश्यते यथावस्थित- 10 वस्तुतत्त्वमनेनेति दर्शनम् उपदेशः, न स्वमनीषिका । किम्भूतस्य पश्यकस्य दर्शनम् ? इत्याह
उवरय इत्यादि । उपरतं द्रव्य-भावशस्त्रं यस्यासावुपरतशस्त्रः । शस्त्राद्वोपरतः शस्त्रोपरतः । भावशस्त्रं त्वसंयमः कषाया वा तस्मादुपरतः । इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरम- 15 ज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः । एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति । शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह
पलियंतकडस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारि- 20 कषायशस्त्रोपरमात् कर्मपर्यन्तकृद् एवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह
आयाणमित्यादि । आदीयते गृह्यते आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं
१. पारमार्थिकश्रमण० ख । २. हुंति घ ङ च । ३. नारोइ ग । ४. उवर इत्यादि । ख घ । ५. भावे शस्त्रं घ च । ६. कषायो ख । ७. कषायकलाषवमनमृते ख । ८. वा ग । ९. तन्मार्गानुयायि कषाय० ख । १०. तीर्थङ्कर० ख । ११. पलियंतकरस्स ख-गप्रती विना । १२. ०स्तस्यैव तद् च । १३. सम्बन्धः ख । १४. आयाणं इत्यादि ख ।