SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३७२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उक्तस्तृतीयोद्देशकः । साम्प्रतं चतुर्थ आरभ्यते । अस्य चायमभिसम्बन्धः । इहानन्तरोद्देशके पापकर्माकरणतया दु:खसहनादेव केवलात् श्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत् प्रतिपादितम्, निष्प्रत्यूहता च कषायवमनाद् भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्दिष्टं प्रतिपाद्यते । तदनेन 5 सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदम् [सू०१२८] से वंता कोहं च मायं च लोभं च । एतं पासगस्स दंसणं उवरतसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि । से वंता इत्यादि । स ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलित10 मतिर्द्रव्यभूतो लोका-ऽलोकप्रपञ्चाद् मुक्तदेश्यः स्व-परापकारिणं क्रोधं वमिता, टुवम् उगिरणे [पा० धा० ८४९] इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया । लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरादेव क्रोधं वमिष्यति । एवमुत्तरत्रापि यथासम्भवमायोज्यम् । तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात् क्रोधः । जाति-कुल-रूप15 बलादिसमुत्थो गर्वो मानः । परवञ्चनाध्यवसायो माया । तृष्णापरिग्रहपरिणामो लोभः । क्षपणोपशमक्रममाश्रित्य च क्रोधादिक्रमोपन्यासः । अनन्तानुबन्धिअप्रत्याख्यान-प्रत्याख्यानावरण-सञ्चलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः । चशब्दस्तु पर्वत-पृथिवी-रेणु-जलराजिलक्षणलक्षकः क्रोधस्य । शैलस्तम्भा ऽस्थि-काष्ठ-तिनिशलतालक्षणलक्षको मानस्य । वंशकुडङ्गी-मेषशृङ्ग-गोमूत्रिका20 ऽवरंबकलक्षणलक्षको मायायाः । कृमिराग-कर्दम-खञ्जन-हरिद्रालक्षणसूचको लोभस्य । तथा यावज्जीव-संवत्सर-चतुर्मास-पक्षस्थित्या-विर्भावकश्चेति । तदेवं ___१. मुक्तदेशकः ङ। २. क्रोधं च वमिता घ ङ। ३. सोऽचिरात् क्रोधं घ ङ च । ४. च इति घ-ड-चप्रतिषु नास्ति । ५. ०पृथ्वी० कप्रतिमृते । ६. ०तिनिशलक्षण० ग । ७. ०ऽवलेक्खि ( खि !)कलक्षण० ग, ०ऽवलेखलक्षण० च, "अवरंवच( बक ) इति अवहेलिका' जे०वि०प० ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy