________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३७१ प्रपञ्चः पर्याप्तका-ऽपर्याप्तक-सुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एके न्द्रि यादिरेकेन्द्रिय(यादि) त्वेन, एवं पर्याप्तकाऽपर्याप्तकाद्यपि वाच्यम् । तदेवम्भूतात् प्रपञ्चान्मुच्यते चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीति यावत् । इति: परिसमाप्तौ । ब्रवीमि इति पूर्ववत् । छ ।
5
इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्तेति ॥ छ ॥ छ ॥
१. पर्याप्तकाद्यपि ख घ । २. इति ग च । ३. ०ध्ययनतृतीयो० ख । ४. ०टीका परिसमाप्तेति ख च. ०टीका परिसमाप्ता ङ। ५. समाप्ता ग ।