________________
३७०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ऽऽमुष्मिकार्थं वा, यदि वा द्वाभ्यां राग-द्वेषाभ्यां हतो द्विहतः, दुष्टं हतो वा दुर्हतः । स किं कुर्यात् ? जीवितस्य कदलीगर्भनि:सारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दन-मानन-पूजनार्थं हिंसादिषु प्रवर्तते । परिवन्दनं परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टसर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः 5 सुखमेव परिवन्दिष्यन्ते, 'श्रीमान् ! जीव्यास्त्वं बहूनि वर्षशतसहस्राणि'
इत्येवमादि परिवन्दनम् । तथा माननार्थं कर्मोपचिनोति, ‘दृष्टौरसबलपराक्रम मामन्येऽभ्युत्थान-विनया-ऽऽसनादानाञ्जलिप्रग्रहैर्मानयिष्यन्ति' इत्यादि माननम् । तथा पूजनार्थमपि प्रवर्तमानः कर्मा श्रवैरात्मानं भावयति, 'मम हि
कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दान-मान-सत्कार-प्रणाम-सेवाविशेषैः 10 पूजां करिष्यति' इत्यादि पूजनम् । तदेवमर्थं कर्मोपचिनोति । किञ्च
जंसि एगे इत्यादि । यस्मिन् परिवन्दनादिनिमित्ते एके राग-द्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः । एतद्विपरीतं त्वाह
सहिए इत्यादि । सहितः ज्ञानादिसमन्वितः हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् नो झंझाए त्ति नो व्याकुलितमति15 भवेत्, तदपनयनाय नोद्यच्छेत् । इष्टविषयावाप्तौ रागझञ्झा, अनिष्टावाप्तौ च द्वेषझञ्झेति । तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः । किञ्च
पासिममित्यादि । यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्तव्या-ऽकर्तव्यतया विवेकेनावधारय । कोऽसौ ?-द्रव्यभूतः मुक्तिगमनयोग्यः साधुरित्यर्थः । एवम्भूतश्च कं गुणमवाप्नोति ? आलोक्यत 20 इत्यालोकः, कर्मणि घञ्, लोके चतुर्दशरज्ज्वात्मके आलोको लोकालोकस्तस्य
१. यद्वा ख । २. ०मान-पूजनार्थं ग, ०मानन-पूजार्थं च । ३. ० पुष्टं सर्वाङ्गोपाङ्गसुन्दरमवलोक्य ख। च । ४. वर्षसहस्राणि च । ५. कर्मास्रवै० घ । ६. जंसेगे इत्यादि ख ग च, जंसेगेत्यादि घ ङ। ७. सद्धिए क, सहिओ घ ङ। ८. पृष्टः ख च, स्पष्टः ग । ९. त्ति इति घप्रतौ न । १०. च इति घ-ङ प्रत्योर्नास्ति । ११. पासिमं इत्यादि ख च । १२. ०नन्तरं सूत्रं ग घ । १३. ०ऽकर्तव्यताविवेकेना० ।