________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३६९ सहिते धम्ममादाय सेयं समणुपस्सति ।
दुहतो जीवियस्स परिवंदण-माणण-पूयणाए, जंसि एगे पमादेति ।
सहिते दुक्खमत्ताए पुट्ठो णो झंझाए । पासिमं, दविए लोगालोगपवंचातो मुच्चति त्ति बेमि । 5
॥ सीओसणिज्जस्स तृतीयोद्देशकः । पुरिसा इत्यादि । हे जीव ! आत्मानमेव अभिनिगृह्य धर्मध्यानाद् बहिविषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः एवम् अनेन प्रकारेण दुःखात् सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्मणामुच्चालयिताऽऽत्मनो मित्रं भवति । अपि च
पुरिसा इत्यादि । हे पुरुष ! सद्भ्यो हितः सत्यः संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि आसेवनापरिज्ञया समनुतिष्ठ । यदि वा सत्यमेव समभिजानीहि गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव । यदि वा सत्यः आगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनम् । किमर्थमेतत् ? इति चेदाह
सच्चस्सेत्यादि । सत्यस्य आगमस्याज्ञयोपस्थितः सन् मेधावी मार 15 संसारं तरति । किञ्च
सहीत्यादि । सहितः ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः धर्म श्रुत-चारित्राख्यम् आदाय गृहीत्वा किं करोति ? इत्याह-श्रेयः पुण्यमात्महितं वा सम्यक् अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाश्च, तद्विपर्ययमाह
दुहओ इत्यादि । द्विधा राग-द्वेषप्रकारद्वयेनात्म-परनिमित्तमैहिका
10
20
१. अनेन दुःखात् क घ ङ। २. हे इति गप्रतो नास्ति । ३. ०स्तस्य परिज्ञानं ख । ४. किमर्थम् ? इति ख । ५. सच्चस्स इत्यादि च । ६. सन् मारं ख, सन् मेधावी घ । ७. सहि इत्यादि ख च। ८. युक्तो धर्मं क घ ङ। ९. ०तया पश्यति च । १०. सम्यक् पश्यति ख च ।