SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे त्पादनात्, विपर्ययाच्च विपर्ययः, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्राऽमित्रविकल्पः सोऽदृष्टोदयनिमित्तवशादौपचारिक इति, उक्तं हि दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ य ते मित्तं । सुह-दुक्खकारणा उ अप्पा मित्तं अमित्तं च ॥ [ ] तथाअप्येकं मरणं कुर्यात्, सङ्घद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ॥ [ ] यो हि निर्वाणनिर्वर्तकं वृत्तमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः ? किम्फलश्च ? इत्याह10 जं जाणिज्जा इत्यादि । यं पुरुषं जानीयात् परिच्छिन्द्यात् कर्मणां विषयसङ्गानां चोच्चालयितारम् अपनेतारं तं जानीयात् दूरालयिकम् इति दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति । हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह ___जं जाणेज्जा इत्यादि । यं जानीयाद् दूरालयिकं तं जानीयादुच्चा15 लयितारमिति । एतदुक्तं भवति–यो हि कर्मणां तदाश्रवद्वाराणां चोच्चालयिता अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति । स चात्मनो मित्रमतोऽपदिश्यते [सू०१२६ ] पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि । 20 [सू०१२७] पुरिसा ! सच्चमेव समभिजाणाहि । सच्चस्स आणाए से उवट्ठिए मेधावी मारं तरति । १. अमित्तो ग । २. अ ग । ३. ०कारणो उ ग, ०कारणाओ ख घ च । ४. जाणेज्जा ग च । ५. वोच्चालयितारम् ग च । ६. दूरालयिकमिति घ ङ। ७. जाणेज्ज ख च, जाणेत्यादि । यज्जानीयाद् घ ङ। ८. इदमुक्तं भवति ख च । ९. तदास्रव० घ । १०. वोच्चालयिता ग घ । ११. मोक्षो वेति च । १. मोक्षो वति । इदमुक्तं भवति खमति घ ङ । ७. जाणेज
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy