SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३७६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अप्रमत्तता च कषायाभावाद् भवति, तदभावाच्चाशेषमोहनीयाभाव:, ततोऽप्यशेषकर्मक्षयः। तदेवमेकाभावे सति बहूनामभावसम्भवः, ऐकाभावोऽपि च बह्वभावनान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह जे एैगमित्यादि । यो हि प्रवर्धमानशुभाध्यवसायाधिरूढकण्डकः एकम् 5 अनन्तानुबन्धिनं क्रोधं नामयति क्षपयति स बहूनपि मानादीन् नामयति क्षपयति, अप्रत्याख्यानादीन् वा स्वभेदान् नामयति । मोहनीयं वैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति । यो वा बहून् स्थितिविशेषान् नामयति सोऽनन्तानुबन्धिनमेकं नामयति, मोहनीयं वा, तथाहि - एकोनसप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीय-दर्शनावरणीय-वेदनीया10 ऽन्तरायाणामेकोनत्रिंशद्भिः नाम - गोत्रयोरेकोनविंशतिभिः शेषकोटी-कोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्यदेति । अतोऽपदिश्यते - यो बहुनाम: स एव परमार्थत एकनाम इति । नामः इति क्षपकोऽभिधीयते, उपशा (श) मको वा। उपशमश्रेण्याश्रयेणैकबहूपशमता बह्वेकोपशमता वा वाच्येति । तदेवं बेहुकर्माभावमन्तरेण 'मोहनीयक्षयस्योपशमस्य वाऽभावः । तदभावे च जन्तूनां 15 बहुदुःखसम्भव इति दर्शयति 20 दुक्खमित्यादि । दुःखम् असातोदयस्तत्कारणं वा कर्म तत् लोकस्य भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात् । कथं तदभावः ? का वा तदभावे गुणावाप्तिः ? इत्युभयमपि दर्शयितुमाह वंता इत्यादि । वान्त्वा त्यक्त्वा लोकस्य आत्मव्यतिरिक्तस्य धन-पुत्रशरीरादेः संयोगं ममत्वपूर्वकं सम्बन्धं शारीरदुखादिहेतुं तद्धेतुककर्मो १. तदभावाच्च शेष० क । २. एकाभावो हि बहु० ख एकभावोऽपि बहुभाव० ङ । ३. च इति कप्रतावेव । ४. बह्वभावानन्तरीयक घ ङ बह्वभावानान्तरीयक च । ५. ० मद्भावेन दर्श० ग । ६. एगं इत्यादि ख, एगेत्यादि ग । ७. स्थितिशेषान् ग । ८. ०मुपगताभिः ख घ । ९. बह्वेककर्माभाव० ग । १०. मोहनीयस्य क्षयोपशमस्य ख, मोहनीयस्य क्षयस्योप० ग च । ११. दुक्खं इत्यादि ख च । १२. तदभावात ( त्) च । १३. तद्धेतुकख च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy