Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३७६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
अप्रमत्तता च कषायाभावाद् भवति, तदभावाच्चाशेषमोहनीयाभाव:, ततोऽप्यशेषकर्मक्षयः। तदेवमेकाभावे सति बहूनामभावसम्भवः, ऐकाभावोऽपि च बह्वभावनान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह
जे एैगमित्यादि । यो हि प्रवर्धमानशुभाध्यवसायाधिरूढकण्डकः एकम् 5 अनन्तानुबन्धिनं क्रोधं नामयति क्षपयति स बहूनपि मानादीन् नामयति क्षपयति, अप्रत्याख्यानादीन् वा स्वभेदान् नामयति । मोहनीयं वैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति । यो वा बहून् स्थितिविशेषान् नामयति सोऽनन्तानुबन्धिनमेकं नामयति, मोहनीयं वा, तथाहि - एकोनसप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीय-दर्शनावरणीय-वेदनीया10 ऽन्तरायाणामेकोनत्रिंशद्भिः नाम - गोत्रयोरेकोनविंशतिभिः शेषकोटी-कोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्यदेति । अतोऽपदिश्यते - यो बहुनाम: स एव परमार्थत एकनाम इति । नामः इति क्षपकोऽभिधीयते, उपशा (श) मको वा। उपशमश्रेण्याश्रयेणैकबहूपशमता बह्वेकोपशमता वा वाच्येति । तदेवं बेहुकर्माभावमन्तरेण 'मोहनीयक्षयस्योपशमस्य वाऽभावः । तदभावे च जन्तूनां 15 बहुदुःखसम्भव इति दर्शयति
20
दुक्खमित्यादि । दुःखम् असातोदयस्तत्कारणं वा कर्म तत् लोकस्य भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात् । कथं तदभावः ? का वा तदभावे गुणावाप्तिः ? इत्युभयमपि दर्शयितुमाह
वंता इत्यादि । वान्त्वा त्यक्त्वा लोकस्य आत्मव्यतिरिक्तस्य धन-पुत्रशरीरादेः संयोगं ममत्वपूर्वकं सम्बन्धं शारीरदुखादिहेतुं तद्धेतुककर्मो
१. तदभावाच्च शेष० क । २. एकाभावो हि बहु० ख एकभावोऽपि बहुभाव० ङ । ३. च इति कप्रतावेव । ४. बह्वभावानन्तरीयक घ ङ बह्वभावानान्तरीयक च । ५. ० मद्भावेन दर्श० ग । ६. एगं इत्यादि ख, एगेत्यादि ग । ७. स्थितिशेषान् ग । ८. ०मुपगताभिः ख घ । ९. बह्वेककर्माभाव० ग । १०. मोहनीयस्य क्षयोपशमस्य ख, मोहनीयस्य क्षयस्योप० ग च । ११. दुक्खं इत्यादि ख च । १२. तदभावात ( त्) च । १३. तद्धेतुकख च ।

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472