Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
उक्तं तृतीयमध्ययनम् । साम्प्रतं चतुर्थमारभ्यते । अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वय - व्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवा - ऽजीवपदार्थद्वयं व्युदपादि, तद्वधे बन्धं विरतिं च भणताऽऽश्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यते 5 इति वदता बन्ध-निर्जर गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहा: सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम्, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्योपक्रमेऽर्थाधिकारो द्वेधा । तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः 10 शस्त्रपरिज्ञायां प्रागेवाभाणि । उद्देशकार्थाधिकारप्रतिपादनाय तु निर्युक्तिकार
आह
15
३८२
पढमे सम्मावाओ बितिए धम्मप्पवादियपरिक्खा । इए अणवज्जतवो न हु बालतवेण मोक्खो त्ति ॥ २१६ ॥ 'उसे उ चउत्थे समासवयणेण नियमणं भणियं । तम्हा य नाण-दंसण - तव चरणे होइ जइयव्वं ॥ २९७ ॥
पैढमे इत्यादि गाथा | उद्देसम्म गाहा । प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग् अविपरीतो वादः सम्यग्वाद: यथावस्थितवस्त्वाविभवनम् । द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्मं प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिका: धर्मप्रावादुका इत्यर्थ:, तेषां परीक्षा युक्ता20 ऽयुक्तविचारणमिति । तृतीयेऽनवद्यतपोव्यावर्णनम्, न च बालतपसा अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः । चतुर्थोद्देशके तु समासवचनेन सङ्क्षेप
१. व्युत्पादितम्, तद्वधे च । २. तद्बधे च बन्धं ग । ३. ०ऽऽस्त्रव० ग घ च । ४. यद्वा मुच्यते । ५. तुख । ६. तदनेन ख । ७. द्वेधा । अध्ययना० ख । ८. उद्देशार्था० ख ग च । ९. बिइए ख ज झ ठ, बीए ञ । १०. ०प्पवाइय० ख छ ज झ ठ ०प्पवातिय० ञ ।
५१. ततिते ञ । १२. मुक्खो ज झ, मुक्ख ठ । १३. उद्देसम्म चउत्थे क - छप्रती विना । १४.
य छ । १५. होति जतियव्वं । १६. पढमे गाहा । ख च । १७. अज्ञानतप० ख ।

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472