Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 396
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३६१ मुनिरसौ ? नैव मुनिरित्यर्थः । अद्रोहाध्यवसायो हि मुनिभावकारणम्, स च तत्र न विद्यते, अपरोपाध्यावेशात् । विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति ? आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु जमिणमित्यादि । अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति 5 भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावः, नान्यथेति । अयं तावन्निश्चयनयाभिप्रायः । व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गारवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणा-ऽऽतापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य 10 मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः । तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभावः ? इत्यत आह समयमित्यादि । समभावः समता तां तत्रोत्प्रेक्ष्य पर्यालोच्य समताव्यवस्थितो यद्यत् करोति येन केनचित् प्रकारेणानेषणीयपरिहरणं लज्जादिना 15 जनविदितं चोपवासादि तत् सर्वं मुनिभावकारणमिति । यदि वा समयम् आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत् सर्वं मुनिभावकारणमिति भावार्थः । तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादयेद् विविधं प्रसादयेद् आगमपर्यालोचनेन समतादृष्ट्या वाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाऽप्रमादादिभिः प्रसन्नं विदध्यात् । आत्मप्रसन्नता च संयमस्थस्य भवति, 20 तत्राप्रमादवता भाव्यमिति । आह च अणन्नपरममित्याद्यनुष्टप् । न विद्यतेऽन्यः परमः प्रधानोऽस्मादित्य १. अधर्मादिपरिहरणं ख। २. जमिणं इत्यादि ख च । ३. मुनेर्भाव घ । ४. समयं इत्यादि ख ग च । ५. समभावं समतां वा तत्रोत्प्रेक्ष्य समताव्यवस्थितो ख। ६. तां स तत्रो० ङ। ७. ०विधानानुष्ठानं ख-चप्रती विना । ८. अणण्णपरमं इत्याद्य० च।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472