________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३६१ मुनिरसौ ? नैव मुनिरित्यर्थः । अद्रोहाध्यवसायो हि मुनिभावकारणम्, स च तत्र न विद्यते, अपरोपाध्यावेशात् । विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति ? आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु
जमिणमित्यादि । अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति 5 भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावः, नान्यथेति । अयं तावन्निश्चयनयाभिप्रायः । व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गारवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणा-ऽऽतापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य 10 मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः ।
तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभावः ? इत्यत आह
समयमित्यादि । समभावः समता तां तत्रोत्प्रेक्ष्य पर्यालोच्य समताव्यवस्थितो यद्यत् करोति येन केनचित् प्रकारेणानेषणीयपरिहरणं लज्जादिना 15 जनविदितं चोपवासादि तत् सर्वं मुनिभावकारणमिति । यदि वा समयम् आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत् सर्वं मुनिभावकारणमिति भावार्थः । तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादयेद् विविधं प्रसादयेद् आगमपर्यालोचनेन समतादृष्ट्या वाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाऽप्रमादादिभिः प्रसन्नं विदध्यात् । आत्मप्रसन्नता च संयमस्थस्य भवति, 20 तत्राप्रमादवता भाव्यमिति । आह च
अणन्नपरममित्याद्यनुष्टप् । न विद्यतेऽन्यः परमः प्रधानोऽस्मादित्य
१. अधर्मादिपरिहरणं ख। २. जमिणं इत्यादि ख च । ३. मुनेर्भाव घ । ४. समयं इत्यादि ख ग च । ५. समभावं समतां वा तत्रोत्प्रेक्ष्य समताव्यवस्थितो ख। ६. तां स तत्रो० ङ। ७. ०विधानानुष्ठानं ख-चप्रती विना । ८. अणण्णपरमं इत्याद्य० च।