________________
३६० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि छिद्रं ज्ञात्वा उपलभ्य न प्रमादः श्रेयान् । एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति । यदि वा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञान-दर्शन-चारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतः पुनः सन्धानं मीलनम् एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शन-चारित्रार्हे भावसन्धि ज्ञात्वा तदर्णप्रतिपालनाय विधेयमिति । यदि वा सन्धिः अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्य भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात्, सर्वत्रात्मौपम्यं समाचरेदित्याह
__ आयओ इत्यादि । यथा ह्यात्मनः सुखमिष्टम् इतरत् त्वन्यथा तथा 10 बहिरपि आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य अवधारय । तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्तव्यम् ? इत्याह
तम्हा इत्यादि । यस्मात् सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात् तेषां न हन्ता न व्यापादक: स्यात् नाप्यपरैस्तान् जन्तून् विविधैः
नानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं 15 पाषण्डिनो न घ्नन्ति तथाप्युद्देशिक-सन्निध्यादिपरिभोगानुमतेरपरैर्घातयन्ति । न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति
जमिणमित्यादि । यदिदं यदेतत् पापकर्माकरणताकारणं किं तत् ? दर्शयति-अन्योन्यस्य परस्परं या विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा
तया तां वा प्रत्युप्रेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं पापोपादानं कर्म अनुष्ठानं न 20 करोति न विधत्ते । किं प्रश्ने क्षेपे वा । तत्र तस्मिन् पापकर्माकरणे किं मुनिः
कारणं स्यात् ? किं मुनिरिति कृत्वा पापकर्म न करोति ? काक्वा पृच्छति । यदि वा यदि नामासौ यथोक्तनिमित्तात् पापानुष्ठानविधायी न सञ्जज्ञे किमेतावतैव
१. ०मासाद्य लवक्षणमपि घ ङ । २. विधिरयमिति घ ङ “विधेयम् इति मीलितमित्यनेन सम्बन्धः" जै०वि०प० । ३. सर्वत्रात्मौपयिकमाचरेदित्याह ख । ४. ०दिति । आह च- च । ५. च इति कप्रतौ नास्ति । ६. सर्वे जन्तवो ग । ७. व्याघातक: ख ) ८. ०करणतया कारणं ख । ९. तत् इति ख-चप्रत्योर्न । १०. परस्पराशङ्कापेक्षया च । ११. पापं कर्म ख च । १२. "काक्वा इति परस्पराशङ्कया' जै०वि०प० ।