________________
5
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३५९
उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीय आरभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितम्, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते । अतोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदम्
[सू०१२२] संधिं लोगस्स जाणित्ता आततो बहिया पास । तम्हा ण हंता ण विघातए ।
जमिणं अण्णमण्णवितिगिंछाए पडिलेहाए ण करेति पावं कम्मं किं तत्थ मुणी कारणं सिया ? [सू०१२३] समयं तत्थुवेहाए अप्पाणं विप्पसादए। 10
अणण्णपरमं णाणी णो पमादे कयाइ वि । आतगुत्ते सया वीरे जातामाताए जावए ॥१०॥
विरागं रूवेहिं गच्छेज्जा महता खुड्डएहिं वा । आगतिं गतिं परिणाय दोहिं वि अंतेहिं अदिस्समाणेहिं 15 से ण छिज्जति, ण भिज्जति, ण डज्झति, ण हम्मति कंचणं सव्वलोए।
संधिं लोयस्स जाणित्ता । तत्र सन्धिर्द्रव्यतो भावतश्च । तत्र द्रव्यतः कुड्यादिविवरम्, भावतः कर्मविवरम् । तत्र दर्शनमोहनीयं यदुदीर्णं तत् क्षीणम्, शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः । यदि वा ज्ञानावरणीयं 20 विशिष्टक्षायोपशमिकभावमुपगतमिति अयं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिः । तं ज्ञात्वा न प्रमादः श्रेयानिति,
१. प्रागुद्देशाधिकार० क । २. अथोऽनेन ङ। ३. जाणेत्ता । तत: सन्धि० ख । ४. तत्र इति ख-चप्रत्योर्नास्ति ।