________________
३५८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे किम्भूतः ? लघुभूतः मोक्षः संयमो वा, तं गन्तुं शीलमस्येति लघुभूतगामी । लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी । पुनरप्युपदेशदानायाह
गंथमित्यादि वृत्तम् । ग्रेन्थं बाह्या-ऽऽभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इह अद्यैव कालानतिपातेन वीर: सन् प्रत्याख्यानपरिज्ञया परित्यजेत् । किञ्च5. सोयमित्यादि । विषयाभिष्वङ्गः संसास्त्रोतस्तद् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति । किमभिसन्धाय संयमं चरेत् ? इत्याह
उम्मग्ग लद्धमित्यादि । इह मिथ्यात्वादिशैवलाच्छादिते संसारहूदे जीवकच्छपः श्रुति-श्रद्धा-संयम-वीर्यरूपमुन्मज्जनम् आसाद्य लब्ध्वा, अन्यत्र
सम्पूर्णमोक्षमार्गासम्भवाद् मानुषेष्वित्युक्तम् । क्त्वाप्रत्यय स्योत्तरक्रियासव्य10 पेक्षित्वाद् उत्तरक्रियामाह
नो पाणिणमित्यादि । प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान् पञ्चेन्द्रिय-त्रिविधबलोच्छास-निःश्वासाऽऽयुष्कलक्षणान् नो समारभेथाः न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति । इतिः परिसमाप्तौ। ब्रवीमि इति पूर्ववत् ।
15
शीतोष्णीयाध्ययनद्वितीयोद्देशकटीका समाप्ता ॥ छ ॥ छ ।
१. गंथं इत्यादि ख च, गंधमित्यादि ङ। २. "ग्रन्थ १४ [आभ्यन्तर]" झअव० । ३. धीर: घ ङ च । ४. सोयं इत्यादि ख च । ५. संसारस्रोत० ग घ ङ। ६. ०श्रोतस्तं ज्ञात्वा ख ग । ७. ०नोइन्द्रियसंयमेन ख । ८. उम्मग क ख, उम्मुग्ग च । ९. लद्धं इत्यादि ख च । १०. ०च्छादितसंसार० कप्रत्या विना । ११. मानुष्येष्वित्युक्तम् ग । १२. ०स्योत्तरकालसव्यपेक्षत्वाद् ख । १३. ०सव्यपेक्षत्वाद् ग । १४. पाणिणं इत्यादि ख च । १५. ०निश्वासा० ख च । १६. व्यपरोपयेत् ग । १७. ०कार्यमनुष्ठानं ङ। १८. इति ङ च । १९. ०याध्ययने ग। २०. समाप्तेति घ, समाप्ता इति ङप्रतो नास्ति, परिसमाप्तेति च ।