________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५७
तम्हा हि वीरे विरते वधातो,
छिदिज्ज सोतं लहुभूयगामी ॥८॥ [ सू०१२१] गंथं परिण्णाय इहऽज्ज वीरे,
सोयं परिणाय चरेज्ज दंते । उम्मुग्ग लद्धं इह माणवेहि, णो पाणिणं पाणे समारभेज्जासि ॥९॥
त्ति बेमि । ॥ सीओसणिज्जस्स बीओ उद्देसओ सम्मत्तो ॥ कोहादीत्यादि वृत्तम् । क्रोध आदिर्येषां ते क्रोधादयः मीयते परिच्छिद्यतेऽनेनेति मानं स्वलक्षणम् अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं 10 क्रोधादिमानम्, क्रोधादिषु यो मानः गर्वः, तं हन्यात् । कोऽसौ ? वीरः । द्वेषापनोदमुक्त्वा रागापनोदार्थमाह
लोहस्स० इत्यादि । लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थिति विपाकं च पश्य । स्थितिमहती सूक्ष्मसम्परायानुयायित्वात्, विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः-मच्छा मणुया य सत्तमिं पुढविं [ ] ते च 15 महालोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्तव्यम् ? इत्याह
तम्हा० इत्यादि । यस्माद् लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति तस्माद् वीरो लोभहेतोर्वधाद्विरतः स्यादिति । किञ्च
छिंदिज्ज० इत्यादि । शोकं भावोतो वा छिन्द्यात् अपनयेत् । 20
१. कोहाइ इत्यादि ख च । २. मीयतेऽनेनेति क ङ, मीयतेऽनेन मानं घ । ३. क्रोधादेर्वा क । ४. गर्वः क्रोधकारणः, तं ख ग च । ५. धीर: घ ङ च । ६. द्वेषापनोदार्थमक्त्वा क ग । ७. ते च लोभाभिभता: घ ङ । ८. प्राणवधादि० च । ९. भवन्तीति घ । १०. स्यात् । किञ्च घ ङ। ११. भावस्रोतो ग ङ।