________________
३५६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उववायं चयणं नच्चा, उपपातं जन्म, च्यवनं पातः, तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति । यतो नि:सारो विषयग्रामः समस्तसंसारो वा सर्वाणि च स्थानान्यशाश्वतानि । ततः किं कर्तव्यम् ? इत्याह
अणन्नमित्यादि । मोक्षमार्गाद् अन्यः असंयमः, नान्यः अनन्यः 5 ज्ञानादिः, तं चर माहण इति मुनिः । किञ्च
से न छणे० इत्यादि । स मुनिः अनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात्, नापरं घातयेत्, घ्नन्तमन्यं न समनुजानीत । चतुर्थव्रतसिद्धये त्विदमुपदिश्यते
__निविद० इत्यादि । निर्विन्दस्व जुगुप्सस्व विषय जनितां नन्दी प्रमोदम् । 10 किम्भूतः सन् ? प्रजासु स्त्रीषु अरक्तः रागरहितः, भावयेच्च यथा-एते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः । अतस्तदर्थं परिग्रहाग्रहयोगपराङ्मुखो भवेदिति । उत्तमधर्मपालनार्थमाह
अणोम० इत्यादि । अवमं हीनं मिथ्यादर्शना-ऽविरत्यादि तद्विपर्यस्तमनवमम् तद् द्रष्टुं शीलमस्येत्यनवमदर्शी सम्यग्दर्शन-ज्ञान-चारित्रवान्, एवम्भूतः 15 सन् प्रजानुगां नन्दी निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसन्दर्शी स किम्भूतो भवति ? इत्याह
निसन्न० इत्यादि । पापोपादानेभ्यः कर्मभ्यः निषण्णः निविण्णः पापकर्मभ्यः पापकर्मसु वा कर्तव्येषु निवृत्त इति यावत् । किञ्च[सू०१२० ] कोधादिमाणं हणिया य वीरे,
लोभस्स पासे णिरयं महंतं ।
20
१. चवणं ग घ ङ। २. तज्ञा( ज्ज्ञा )त्वा ख । ३. समस्तं संसारो घ, समस्तः संसारो च । ४. अणण्णं इत्यादि च । ५. ज्ञानादिकः घ ङ। ६. छण घ ङ। ७. नाप्यपरं ख च, न परं घ, ङप्रतौ पाठभङ्गः । ८. ०त्, घातयन्तं न सम० ख-चप्रती ऋते । १. समनुजानीयात् ग। १०. ० जनितनन्दी ख । ११. "त्रपुषीफलनिबन्धनं कटुकर्कटीविण्टम्'' स०वि०प० । १२. "निबन्धन इति वृन्तम्'' जे०वि०प० । १३. सम्यग्ज्ञान-दर्शन-चारित्रवान् च। १४. एवभूतं (तां ?) नन्दी ख । १५. यश्चानवमदर्शी च ।