________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५५ लोभेच्छापूरणव्याकुलितमतिः किं कुर्यात् ? इत्याह
से अन्नवहाए० इत्यादि । स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति । तथाऽन्येषां शारीर-मानसपरितापनाय । तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय । जनपदे भवा जानपदाः कालप्रष्ठादयो राजादयो वा मगधादिजनपदा वा तद्वधाय । तथा जनपदानां लोकानां परिवादाय दस्युरयं 5 पिशुनो वा इत्येवं मर्मोद्घट्टनाय । तथा जनपदानां मगधादीनां परिग्रहाय । प्रभवतीति सर्वत्राध्याहारः । किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथा ? अन्यथाऽपीति दर्शयति
आसेवित्ता० इत्यादि । एनम् अनन्तरोक्तमर्थमन्यवध-परिग्रहपरितापनादिकमासेव्य इत्येव इति लोभेच्छाप्रतिपूरणायैव एके भरतराजादय: 10 समुत्थिताः सम्यग् योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चाश्रवद्वाराणि हित्वा किं विधेयम् ? इत्याह
तम्हा० इत्यादि । यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद् भोगलिप्सुतया तेद् द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च 15 विषया नि:सारा इति दर्शयति
निस्सारं० इत्यादि । सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिः, तदभावाद् नि:सारस्तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणाम्, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति
१. तथा तेषां क । २. "कालप्रष्टादय इति म्लेच्छादयः' जै०वि०प०, "तृतीयाध्ययने उद्दे० २-कालप्रष्टादयः म्लेच्छादयः" स०वि०प० । ३. वा तद्वधाय ग-ङपुस्तके विना । ४. भवतीति ङ। ५. सर्वदाध्याहार: ख । ६. किं ये ते लोभ० क । ७. उतान्यथाऽपि ? इति दर्श० ख ग च । ८. एवम् क च । ९. संयमानुष्ठानोद्यता० ख च । १०. ०न चोत्थाय ख च। ११. चास्रव० ङ । १२. तत्र ग, तं घ ङ, "बितियं णाम पुणो पुणो तमिति विसयसुहं असंजमं वा । आसेवणं करणं । सहस्ससो वि आसेविज्जमाणाणं विसयाणं तित्तिअभावे' १३. नासेवते क । १४. निस्सार क ख ग । १५. च इति ख-चप्रत्योर्न ।