SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उववायं चयणं णच्चा अणण्णं चर माहणे । से ण छणे, न छणावए, छणंतं णाणुजाणति । णिव्विदं णंदिं अरते पयासु अणोमदंसी णिसण्णे पावेहिं कम्मेहिं । 5 सच्चे इत्यादि । सद्भयो हित: सत्यः संयमस्तत्र धृतिं कुरुध्वम्, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात् । तत्र भगवदाज्ञायां धृति कुमार्गपरित्यागेन कुरुध्वमिति । किञ्च एत्थोवरए० इत्यादि । अत्र अस्मिन् संयमे भगवद्वचसि वा उप सामीप्येन रतः व्यवस्थितः मेधावी तत्त्वदर्शी सर्वम् अशेषं पापं कर्म 10 संसारार्णवपरिभ्रमणहेतुं झोषयति शोषयति क्षयं नयतीति यावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः । तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवति ? इत्याह __ अणेगचित्ते० इत्यादि । अनेकानि चित्तानि कृषि-वाणिज्या-ऽवलगनादीनि यस्यासावनेकचित्तः । खलुः अवधारणे, संसारसुखाभिलाष्यनेकचित्त एव 15 भवति । अयं पुरुषः इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते । अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति । यश्चानेकचित्तो भवति स किं कुर्यात् ? इत्याह से केयणमित्यादि । द्रव्यकेतनं चालनी परिपूर्णकः समुद्रो वेति । भावकेतनं लोभेच्छा । तदसावनेकचित्तः केनाप्यभूतपूर्वं पूरयितुमर्हति, अर्थितया 20 शक्या-ऽशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपि प्रवर्तत इत्युक्तं भवति । स च १. सच्चेत्यादि ग । २. ०स्वरूपाविर्भावात् ग । ३. कुरु त्वमिति च। ४. "एत्थोवरते त्ति सच्चपडिपक्खे अलिए सच्चाधिट्ठितवताण वा पडिपक्खे उवरतो णिव्वित्तो' चूर्णौ । ५. ०हेतुः क घ ङ, ०हेतु च । ६. झोषयति इति खप्रतो नास्ति । ७. ०न च प्रमत्तः ख। ८. संसार्युपदिश्यते घ ङ । ९. ०घटिकाया च । १०. कपिलेन च ख । ११. केयणं इत्यादि ख ग च । १२. "चालिनीपरिपूर्णक इति सुघरीगृहम्' जै०वि०प० ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy