SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५३ तैजस-कार्मणे संस्थानमाद्यं वर्णादिचतुष्कम् आनुपूर्वी अगुरुलघु उपघातं पराघातम् उच्छासः प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरम् आदेयं यश:कीर्तिः निर्माणमिति च बध्नत एकं बन्धस्थानम् । एव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशत् । एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रिय-त्रीन्द्रिय-नरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया । अपूर्व- 5 करणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद् यश:कीर्तिमेव बनत एकविधं बन्धस्थानमिति । तत ऊर्ध्वं नाम्नो बन्धाभाव इति । गोत्रस्य सामान्येनैकं बन्धस्थानम्-उच्च-नीचयोरन्यतरत्, यौगपद्येनोभयोबंन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणाम्, तच्च बहुकर्म प्रकृतं 10 बद्धं प्रकटं वा, तत्कार्यदर्शनात् । खलुशब्द: वाक्यालङ्कारे अवधारणे वा, बढेव तत् कर्म । यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यम् ? इत्याह [सू०११७] सच्चंसि धितिं कुव्वह । एत्थोवरए मेहावी सव्वं पावं कम्मं झोसेति । __ [ सू०११८] अणेगचित्ते खलु अयं पुरिसे, से केयणं 15 अरिहइ पूरइत्तए। से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरिवायाए जणवयपरिग्गहाए । [सू०११९] आसेवित्ता एयमटुं इच्चेवेगे समुट्ठिता । तम्हा तं बिइयं नासेवते णिस्सारं पासिय णाणी। 20 १. उच्छ्वासं ग-चपुस्तके ऋते । २. पर्याप्तं क । ३-४. च इति खप्रतो न । ५. मेकेन्द्रिय-नरक० च । ६. ०द्वीन्द्रिय-नरक० क ख, द्विन्द्रिय-नारक० ग । ७. बध्नत इत्येकविधं ख । ८. ऊर्द्ध ख ग च । ९. तत्कार्यप्रदर्शनात् ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy