________________
३५२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात् पञ्चविधम्, ततोऽनिवृत्तिकरणसङ्ख्येयभागावसाने पुंवेदबन्धोपरमात् चतुर्विधम्, ततोऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोध-मान-मायासञ्चलनानां क्रमेण
बन्धोपरमात् त्रिविधं द्विविधमेकविधं चेति, तस्याप्यनिवृत्तिकरणचरमसमये 5 बन्धोपरमान्मोहनीयस्याबन्धकः ।
आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, व्यादेर्योगपद्येन बन्धाभावो विरोधादिति ।
नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिः, तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्ण10 गन्ध-रस-स्पर्शास्तिर्यग्गतिप्रायोग्या आनुपूर्वी अगुरुलघु उपघातं स्थावरं बादर
सूक्ष्मयोरन्यतरद् अपर्याप्तक प्रत्येक-साधारणयोरन्यतरद् अस्थिरम् अशुभं दुर्भगम् अनादेयम् अयश:कीर्तिः निर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेर्भवति । इयमेव पराघात-उच्छाससहिता पञ्चविंशतिः,
नवरमपर्याप्तकस्थाने पर्याप्तक एव वाच्यः । इयमेव चातप-उद्द्योतान्यतर15 समन्विता षड्विंशतिः, नवरं बादर-प्रत्येके एव वाच्ये । तथा देवगतिप्रायोग्यं बनतोऽष्टाविंशतिः, तथाहि-देवगतिः पञ्चेन्द्रियजातिः वैक्रिय-तैजस-कार्मणानि शरीराणि समचतुरस्रम् अङ्गोपाङ्गं वर्णादिचतुष्कम् आनुपूर्वी अगुरुलघु उपघातं पराघातम् उच्छास: प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरा
ऽस्थिरयोरन्यतरत् शुभा-ऽशुभयोरन्यतरत् सुभगं सुस्वरम् आदेयं यश:कीति20 अयश:कीोरन्यतरत् निर्माणमिति । एषैव तीर्थकरनामसहिता एकोनत्रिंशत् ।
साम्प्रतं त्रिंशत्-देवगतिः पञ्चेन्द्रियजातिः वैक्रिया-5ऽहारकाङ्गोपाङ्गचतुष्टयं
१. ०श्चापूर्वकरणे चरम० च । २. ०करणबन्धभागा० ख । ३. तस्मिन्नेवासङ्ख्येयभागे ख । ४. ०माया-लोभञ्वलनानां ग । ५. ०स्याबन्धः ख । ६. प्रायोग्यानुपूर्वी घ ङ च । ७. पर्याप्तकमेव वाच्यम् । इय० ख घ. पर्याप्तकमेव वाच्यम् । तथा इय० ङ। ८. "वाच्ये [इ]ति कर्मणीति शेपः'' जै०वि०प० । ९. तथा इति क-घप्रत्योर्न, ततो च । १०. तद्यथा-देव० ख । ११. शरीराणि क-चआदर्शयोनास्ति । १२. ०चतुष्टयं घ ङच । १३. उपघात क ख घ च । १४. स्थिरं शुभं सुभगं सुस्वरं च । १५. ०ऽऽहारकशरीरा-ऽङ्गोपाङ्गचतुष्कं तैजस० ख ।