________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५१ तज्जघन्येनान्तर्मुहूर्तम् उत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि । सूक्ष्मसम्परायिकस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकम्, उत्कृष्टतस्त्वन्तमुहूर्तमिति । तथोपशान्त-क्षीणमोह-सयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानम्, तच्च जघन्येन सामयिकम्, उत्कृष्टतो 5 देशोनपूर्वकोटिकालीयम् ।
इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणा-ऽन्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद् बन्धस्थानम् । ___दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चक-दर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वाद् नवविधम्, ततः स्त्यानधित्रिकस्यानन्तानुबन्धिभिः सह 10 बन्धोपरमे षड्विधम्, अपूर्वकरणसङ्ख्येयभागे निद्रा-प्रचलयोर्बन्धोपरमे चतुर्विधं बन्धस्थानम् ।
वेदनीयस्यैकमेव बन्धस्थानं सातमसातं वा बजतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् ।
मोहनीयस्य बन्धस्थानानि दश, तद्यथा-द्वाविंशतिः, मिथ्यात्वं षोडश 15 कषाया अन्यतरो वेदो हास्य-रतियुग्मा-ऽरति-शोकयुग्मयोरन्यतरद् भयं जुगुप्सा चेति, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः, सैव सम्यग्मिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वाऽनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानम्, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधम्, तदेव प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावाद् नवविधम्, एतदेव हास्यादियुग्मस्य भय- 20
१. "तद्रहितानि देव-मनुज(जा)युर्बन्धान्तर्मुहूर्ताभ्यां रहितानि'' जै०वि०प०, ०स्तद्रहितत्रयस्त्रिंश० ख । २. ०सम्परायस्य क प्रतिमृते । ३. मोहनीयस्य बन्धो० ख । ४. ०बन्धाभावाच्च षड्विधम् ख । ५. ०तस्त्वान्तौहूर्तिकमिति ख । ६. बध्नतामेकं बन्ध० क। ७. "अनन्तानुबन्धि[ भि ]रिति एतैर्बध्यमानैरेव एतद्बध्यते इति सूचयति'' जै०वि०प० । ८. बन्धोपरमात् षड्विधम् ग । ९. मोहनीयबन्ध० च । १०. अन्यतरवेदो घ ङ । ११. यतीनां इति खप्रतो नास्ति ।