________________
३५०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मरणात् आयुःक्षयलक्षणाद् मुच्यते, आयुषो बन्धनाभावात् । यदि वा आजवञ्जवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणम्, तस्मात् प्रमुच्यते । यश्चैवं स किम्भूतो भवति ? इत्याह-से हु० इत्यादि । सः अनन्तरोक्तो मुनिः ।
दृष्टं संसाराद्भयं सप्तप्रकारं वा येन स तथा । हुः अवधारणे, दृष्टभय एव । 5 किञ्च
लोयंसि० इत्यादि । लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमः मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी । तथा विविक्तं स्त्रीपशु-पण्डकसमन्वितशय्यादिरहितं द्रव्यतः, भावतस्तु राग-द्वेषरहितमसक्लिष्टं
जीवितुं शीलमस्येति विविक्तजीवी । यश्चैवम्भूतः स इन्द्रिय-नोइन्द्रियोपशमाद् 10 उपशान्तः । यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग् वा इतः गतो मोक्षमार्गे
समितः । यश्चैवं स ज्ञानादिभिः सहितः समन्वितः । यश्च ज्ञानादिसहितः स सदा यतः अप्रमादी । किमवधिश्चायमनन्तरोक्तो गुणोपन्यासः ? इत्याह
काल० इत्यादि । कालः मृत्युकालस्तमाकाङ्कितुं शीलमस्येति कालाकाङ्क्षी । स एवम्भूतः परि समन्ताद् व्रजेत् परिव्रजेत्, यावत् पर्यायागतं 15 पण्डितमरणम् तदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत्–किमर्थमेवं क्रियते ? इत्याह
बहुं च० इत्यादि । मूलोत्तरप्रकृतिभेदभिन्नं प्रकृति-स्थित्यनुभावप्रदेशबन्धात्मकं बन्ध-उदय-सत्कर्मताव्यवस्थामयं तथा बद्ध-स्पृष्ट-निधत्तनिकाचितावस्थागतं कर्म, तच्च न हुसीयसा कालेन क्षयमुपयातीत्यतः काला20 काङ्क्षीत्युक्तम् ।
तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथासर्वमूलप्रकृतीबंध्नतोऽन्तर्मुहूर्तं यावदष्टविधम् । आयुष्कवर्जं सप्तविधम् ।
१. ०द्भयं येन स क । २. किञ्च इति ङपुस्तके नास्ति । ३. लोगसीत्यादि ख च । ४. ०भूतात्मके ख । ५. ०भिः समन्वितः सहितः । यश्च क ग । ६. स हि सदा ङ । ७. ०कालं मृत्युमाकाङ्कितुं ख । ८. परि: ख च । ९. ०मरणं तावदाकाङ्क्षमाणो ख च । ११. तद्यथा इति खप्रतौ नास्ति । १२. ०र्बनतो मुहूर्तं ख ।