________________
आयगुत्ते इत्यादि । इन्द्रिय- नोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा सर्वकालं यात्रा संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न संहे' [ ] इत्यादि, तयाऽऽत्मानं यापयेत् यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यात्, उक्तं च
5
10
३६२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
नन्यपरमः संयमस्तं ज्ञानी परमार्थवित् नो प्रमादयेत् तस्य प्रमादं न कुर्यात् कदाचिदपि । यथा चाप्रमादता भवति तथा दर्शयितुमाह
15
आहारार्थं कर्म कुर्यादनिन्द्यम्, स्यादाहारः प्राणसन्धारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥ [ सैवाऽऽत्मगुप्तता कथं स्यात् ? इति चेद् आह
]
१४
विरागमित्यादि । विरजनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु गच्छेत् यायात् । रूपमतीवाऽऽक्षेपकारि अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात् । महता दिव्यभावेन यद् व्यवस्थितं रूपं क्षुल्लकेषु वा मँनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति । अथवा दिव्यादि प्रत्येकं महत् क्षुल्लकं चेति, क्रिया पूर्ववत् । नागार्जुनीयास्तु पठन्ति
२०
विसयम्मि पंचगम्मी, दुविहम्मितियं तियं ।
भावओ जाणित्ता, से न लिप्पड़ दोसु वि ॥
२२
शब्दादिविषयपञ्चकेऽपि इष्टा ऽनिष्टरूपतया द्विविधे हीन-मध्यमो
-
१. चाप्रमादवत्ता घ च । २. आयगुत्तेत्यादि ग । ३. तस्या च । ४. ० मात्रा, साच ग । ५. सहईत्यादि क ग, सहइ इत्यादि घ ङ । ६. यथा इति खपुस्तके नास्ति । ७. कुर्यादिति, उक्तं च घ ङ । ८. आहारस्यार्थं ग, आहाराद्यर्थं च । ९. ० निन्द्यं कुर्यादाहारं प्राण० चप्रतिमृते, चूर्णौ च । १०. प्राणाः सन्धार्या ० चप्रत्या विना, चूर्णौ च । ११. ०जिज्ञासनार्थं ग च, चूर्णौ च । १२. तत्त्वं जिज्ञास्यं येन निष्ठां समेयात् चपुस्तकं विना, तत्त्वं जिज्ञास्यं येन दुःखाद्विमुच्चे( च्येत्) चूर्णौ । १३. असौ चात्मगुप्तता ग । १४. विरागं इत्यादि । विरंजनं ख च । १५. गच्छेत् इति खप्रतौ नास्ति । १६. ० विषयेऽपि ग । १७. मनुष्येषु सर्वत्र ख । १८. “महतु(त्) क्षुल्लक म् ] इति उत्कृष्टं रूपं मह[ त्], काल-कुब्जादि क्षुल्लकम्, शेषं मध्यमम्" जै०वि०प० । १९. " पूर्ववत् इति विरागं कुर्यात् " जै०वि०प० । २०. पंचगम्मि वि० ख चूर्णौ च, पंचगम्मिं च । २१. जाणेत्ता ख । २२. द्विविधं ( धे) 'त्रिविधं' हीन० ग ।