________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः
३६३
त्कृष्टभेदमित्येतत् भावतः परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि राग-द्वेषाभ्यां न लिप्यते, तदकरणादिति भावः । स्यात्किमालम्ब्यैतत् कर्तव्यम् ? इत्याह
आगइमित्यादि । आगमनम् आगतिः । सा च तिर्यङ्-मनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावात् । देव-नारकयोर्द्वेधा तिर्यङ् - मनुष्यगतिभ्या - 5 मेवागमनसद्भावात् । एवं गतिरपि । मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावात् । अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वाद् अन्तौ राग-द्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तर
क्रियामाह
से इत्यादि । सः आगति-गतिपरिज्ञाता राग-द्वेषाभ्यामनपदिश्यमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, ने हन्यते नरकगत्यानुपूर्व्यादिना भूयशः, अथवा राग-द्वेषाभावात् सिद्धयत्येव । तदवस्थस्य चैतानि छेदनादीनि विशेषणानि कंचणमिति विभक्तिपरिणामात् केनचित् सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते राग-द्वेषोपशमादिति । तदेवमागति- 15 गतिपरिज्ञानाद् राग-द्वेषपरित्यागः, तदभावाच्च छेदनादिसंसारदुःखाभावः । अपरे च साम्प्रतेक्षिणः कुतो वयमागताः ? क्व यास्यामः ? किं वा तत्र नः सैम्पत्स्यते ? नैवं भावयन्ति, अतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह—
[सू०१२४ ] अवरेण पुव्वं ण सरंति एगे, किमस्स तीतं किं वाऽऽगमिस्सं ।
"न
१. ०त्कृष्टमित्येतत् क । २. आग इत्यादि । ख च । ३. ०नारकयोर्द्विधा च । ४. वा च । ५. ०रहट्ट० ग । ६. अन्तौ च राग० ख । ७. च घ ङ च । ८. ० गतिज्ञाता ङ । ९. हन्यते इति न नीयते" जै०वि०प० । १०. बहुशः ख घ ङ । ११. सिद्ध्यते च । तद० ग ङ । १२. कञ्चनमिति क । १३. सम्पद्यते ङ । १४. ०ते ? इत्याद्यनालोचकाः संसार० ख ।
10
20