Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 390
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५५ लोभेच्छापूरणव्याकुलितमतिः किं कुर्यात् ? इत्याह से अन्नवहाए० इत्यादि । स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति । तथाऽन्येषां शारीर-मानसपरितापनाय । तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय । जनपदे भवा जानपदाः कालप्रष्ठादयो राजादयो वा मगधादिजनपदा वा तद्वधाय । तथा जनपदानां लोकानां परिवादाय दस्युरयं 5 पिशुनो वा इत्येवं मर्मोद्घट्टनाय । तथा जनपदानां मगधादीनां परिग्रहाय । प्रभवतीति सर्वत्राध्याहारः । किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथा ? अन्यथाऽपीति दर्शयति आसेवित्ता० इत्यादि । एनम् अनन्तरोक्तमर्थमन्यवध-परिग्रहपरितापनादिकमासेव्य इत्येव इति लोभेच्छाप्रतिपूरणायैव एके भरतराजादय: 10 समुत्थिताः सम्यग् योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चाश्रवद्वाराणि हित्वा किं विधेयम् ? इत्याह तम्हा० इत्यादि । यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद् भोगलिप्सुतया तेद् द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च 15 विषया नि:सारा इति दर्शयति निस्सारं० इत्यादि । सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिः, तदभावाद् नि:सारस्तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणाम्, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति १. तथा तेषां क । २. "कालप्रष्टादय इति म्लेच्छादयः' जै०वि०प०, "तृतीयाध्ययने उद्दे० २-कालप्रष्टादयः म्लेच्छादयः" स०वि०प० । ३. वा तद्वधाय ग-ङपुस्तके विना । ४. भवतीति ङ। ५. सर्वदाध्याहार: ख । ६. किं ये ते लोभ० क । ७. उतान्यथाऽपि ? इति दर्श० ख ग च । ८. एवम् क च । ९. संयमानुष्ठानोद्यता० ख च । १०. ०न चोत्थाय ख च। ११. चास्रव० ङ । १२. तत्र ग, तं घ ङ, "बितियं णाम पुणो पुणो तमिति विसयसुहं असंजमं वा । आसेवणं करणं । सहस्ससो वि आसेविज्जमाणाणं विसयाणं तित्तिअभावे' १३. नासेवते क । १४. निस्सार क ख ग । १५. च इति ख-चप्रत्योर्न ।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472