Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मर्त्यकाण्डः । शाणी गोणी छिद्रवस्त्रे जलार्दा क्लिन्नवाससि । पर्यस्तिकापरिकरः पर्यश्वावसक्थिका ॥ ६७९. कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जैवन्यपि ॥ ६८० तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थुलं दृष्ये केणिका पटकुट्यपि ॥ ६८१ गुणलयनिकायां स्यात्मंस्तरसस्तरौ समौ । तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ ६८२ मञ्चमञ्चकपर्यङ्कपल्यङ्काः ग्वट्या समाः । उच्छीर्षकमुपादानवौंपाले पतद्ग्रहः ॥ ६८३ प्रतिग्राहे मुकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टर: पीटर्मासनम् ॥ ६८४ कमिपुभोजनाच्छादावौशिरंशयनाशने । लाक्षा द्रुमामयो राक्षा रङ्गमाता पलंकषा॥ १८५ जतु क्षतन्ना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६ स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा ॥ ६८७ आलावत तु वस्त्रस्य कङ्कत: केशमार्जनम् । प्रमाधनश्वाथ बालक्रीडनके गुडो गिरिः॥ ६८८ गिरियको गिरिगुडः समौ कन्दुकगेन्दुको । राजा रापृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः । मध्यमो मण्डलाधीशः स सम्राट शास्ति यो नृपान ६९० यः मर्वमण्डलस्येशो राजसूयं च योऽजयत । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ आर्षभिर्भरतस्तत्र मगरस्तु सुमित्रभूः । मघवा वैजयिरधाश्वसेननृपनन्दनः ॥ मनत्कुमारोऽथ शान्तिः कुन्थुरगे जिना अपि । सुभूमस्तु कार्तवीर्य पद्मः पद्मोत्तरात्मजः ।। ६९३ हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः ॥ ६९४ प्रजापत्यस्त्रिपृष्ठोऽथ द्विपृष्टो ब्रह्मसंभवः । स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ शैवः पुरुषसिंहोऽथ महाशिर:समुद्भवः । स्यात्पुरुषपुण्डरीको दत्तोऽग्निसिंहनन्दनः ॥ ६९६ नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा नव शुक्ला बलास्वमी ॥ ६९७ अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८ अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भवलिप्रल्हादलङ्केशमगधेश्वराः ॥ ६९९ जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी । आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ ७०० धुन्धुमारः कुवलाश्वो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा वौध ऐल उर्वशीरमणश्च सः॥ ७०१ दौष्यन्तिर्भरतः 'मदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो दो:सहन्त्रभृदर्जुनः ॥ ७०२ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ गमपुत्रौ कुशलवावेकयोत्तया कुशीलवौ । सौमित्रिर्लक्ष्मणो वाली वालिरिन्द्रसुतश्च सः ॥ ७०४ आदित्यसूनुः सुग्रीवो हनुमान्वज्रकङ्कटः । मारुतिः केसरिसुत आञ्जनेयोऽर्जुनध्वजः॥ ७०५ पौलस्त्यो गवणो रक्षो लड्देशो देशकंधरः । रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६ अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः । कङ्कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ७०७ १. पल्यकोऽपि. २. यमनीत्यपि. ३. प्रस्तरोऽपि. ४. तेन उपधानम्, उपबहः. ५. प्रतिग्रहोऽपि. ६. पतद्गाहोऽपि. ७. गिरिकोऽपि. ८. गिरीयकोऽपि. ९. गेण्डुकोऽपि. १०. मूर्धावसिक्तोऽपि. ११. 'प'शब्दस्य 'भू'प्रभृतिनान्वयः; यौगिकत्वात् भूपालः, लोकपालः, नरपालः, इत्यादयः. १२. सर्वदमनोऽपि. १३. सुग्रीवाग्रजोऽपि. १४. हनूमानपि. १५. 'ईश'शब्दस्य रक्षसाप्यन्वयः; यौगिकत्वात् राक्षसेश:, लङ्कापतिः. १६. दशास्य-दशशिरोदशकण्ठा अपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313