Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कङ्कशृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे । वाते काश्मीरजं कुष्टे कुङ्कुमे पौष्करेऽपि च ॥ १४२४ काश्मीरजातिविषयां क्षीराब्धिजं मौक्तिके वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ।। ग्रहराजः शशिन्य जघन्यजोऽनुजन्मनि । शूद्रे च द्विजराजस्तु शेषे ताये निशाकरे ॥१४२६ धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे । भरद्वाजः पक्षिभेदे बृहसतिसुतेऽपि च ॥ १४२७ [भारद्वाजो मुनौ भारद्वाजी वनपिचुटुमे |] भृङ्गराजो मधुकरे मार्कवे विहगान्तरे ॥ १५२८ राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः। काके सिंहेऽथोच्चिङ्गटः कोपने मीनभिद्यपि ॥१४२९ करहाटः पद्मकन्दे देशद्रुमविशेषयोः । कार्यपुटोऽनर्थकारे क्षपणोन्मत्तयोरपि ॥ १४३० कामकूटो वेश्याविभ्रमेष्टावथ कुटन्नटः । शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ॥ १४३१ विप्रीपुत्रे दासीपतौ चार्वाकोक्तिविशारदे । खञ्जरीटस्तु खञ्जनेऽसिधाराव्रतचारिणोः ॥ १४३२ गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि । चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥ १४३३ तुलाकोटिनिभेदेऽर्बुदे स्यान्नूपुरेऽपि च । नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके || १४३४ प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च। प्रतिकृष्टं तु गुह्ये स्याविरावृत्त्या च कर्षिते ॥१४३५ परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना । वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ॥ १४३६ स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च । शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ॥ १४३७ श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः । कलकण्ठः पिके पारावते हंसे कलध्वनौ ॥ १४३८ कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खक्षरीटे शिखावले ॥ १४३९ कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ॥ १४४० जम्बीरे नागरङ्गे च कर्मरङ्गकपित्थयोः । पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च ॥ १४४१ सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके । हारिकण्ठः हारयुक्तकण्ठे परभृतेऽपि च ॥ १४४२ अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके । चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ॥१४४३ जलरुण्डः पयोरेणौ जलावर्ते भुजङ्गमे । देवताडो घोषकेऽमौ राही वातखुडा पुनः ॥ १४४४ वात्यायां पिच्छिलस्फोटे वामायां वात शोणिते । अध्यारूढः समारूढेऽभ्यधिकेऽङ्गारिणी पुनः १४४५ भास्करे त्यक्तदिक्षुल्योराथर्वणः पुरोधसि । अथर्वज्ञत्राह्मणे चाप्यारोहणं प्ररोहणे ॥ १४४६ समारोहे सोपाने च स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोरुत्क्षेपणमुदञ्चनम् ॥ १४४७ १. इत्यत्र 'शेपे तार्थे निशाकरे । अमृतादिसमूहे च भवेत्' ग-पुस्तकेऽधिकः पाठः. २. 'शशाङ्के गरुडेऽपि च' ख. ३. 'मुनौ जीवसुतेऽपि च' ग-घ. ४. 'भरद्वाजस्यापत्यं भारद्वाजः' इति टीका. 'भरद्वाजः' ख. कोष्ठान्तर्गतपाठो ग-घ-पुस्तकयो स्ति. ५. 'द्विके' ख. ६. 'पुष्प' ख. ७. 'धवे दास्याः' ख. ८. 'फलके' ख. ९. इतःपरम् 'गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च' ख. १०. इतःपरम् 'चतुःषष्टिश्चतुःषष्टिकलासु बहुचेऽपि च' ख. ११. 'प्रतिशिष्यते प्रतिशिष्टः' इति टीका. 'प्रतिसृष्टः' ग-घ. १२. 'श्रुति शास्त्रं कटति श्रुतिकटः' इति टीका. 'श्रुतिकण्ठः' ग-ध. १३. 'हारी हारवान् मनोहरो वा कण्ठो गलः स्वरो वा यस्य हारिकण्ठः' इति टीका. 'हारकण्ठः' ख. १४. 'जलं रुणद्धि जलरुण्डः' इति टीका. 'जलरण्डः'ग-घ. १५. 'अत्र अप्यधिकेऽप्यभिधेयवत् । अङ्गारिणीह संत्यां स्याद्भास्करत्यक्तदिश्यपि । आथर्वणोऽथर्वविदि ब्राह्मणे च पुरोधसि । आरोहणं समारोहे सोपाने च प्ररोहणे । आतर्पणं तु सौहित्ये विन्द्यादालिङ्गनेऽपि च । उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि । उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये। वातान्ने च कामगुणो विषयाभोगयो रतौ। कार्षापणः कार्पिके स्यात्पणषोडशकेऽपि च । जीर्णपर्णस्तु निम्बे स्यात्खजूरी भूरुहेऽपि च ॥' ख-पुस्तके एवं पाटः, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313