Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 280
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ अभिधान संग्रहः – ८ अनेकार्थसंग्रहः । १७४१ १७४५ १७४६ १७४९ १७५० कलानुनादी चटके चरीके कपिञ्जले । गन्धमादनः कप्यद्रिभिदोरेलिनि गन्धके ॥ गन्धमादनी सुरायामथ जायानुजीविनः । वैकाश्विननटदुःस्थाः स्याद्धूमकेतनोऽनले ॥ १७४२ ग्रहभेदे च प्रतिपादनं बोधनदानयोः । पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥ १७४३ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि । पीतचन्दनं स्याद्धरिद्रायां कश्मीरजन्मनि ॥ १७४४ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे || द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ रोचनायां हरिद्रायामथ स्याच्छकुलादनी । कैटामांसीपिचुलिकाजलपिप्पलिकासु च || १७४७ शालङ्कायनो नन्हृष्योः स्याच्छ्रेतवाहनः शशी । पार्थेऽथ सहस्रवेधी चुक्रे सहस्रवेधि तु ।। १७४८ हिङ्गौ चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले || धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोडुम्बे फले च वदरीतरोः ॥ अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ॥ कालानुसार्य शैलेये कालेये शिशिपातरौ । अथ स्याद्दुग्धतालीयं दुग्धाप्रदुग्धफेनयोः || वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते || कपिलधारा त्रिदशापायां तीर्थभिद्यपि । तमालपत्रं तिलके तांपिच्छे पत्रकेऽपिच ॥ तालीसपत्रं तु तामलक्यां तालीसके कचित् । पादचत्वरः करके परदोषैकभाषिणि ॥। सैकते छगलेऽश्वत्थमेऽपसुचामरः । वद्धपके प्रशंसायां दुर्वाचित भुवि ॥ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कुमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ १७५७ 'नॅलिनी पुर्योर्विप्रतिसारस्त्वनुशये रुषि । कौये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः || १७५८ निम्वेऽथ सर्वतोभद्रा गम्भार्या नटयोषिति । समभिहारस्वाभीक्ष्णे भृशार्थेऽथा सुतीबलः || १७५९ शौण्डिके यज्वन्युदण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे ।। १७६० कृपीटपास्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलयावभेदयोः || १७६१ १७५१ १७५२ १७५३ १७५६ For Private and Personal Use Only १७५४ १७५५ १. 'कलं मनोज्ञमनुवदति कलानुनादी' इति टीका. 'कालानुनादी' ख. २. 'अलौ च' ग घ ३. 'नटाश्विनवकदुःस्थाः' ख. ४. ' इत्येतच्छातकुम्भकुसुम्भयोः । मधुसूदनसंज्ञा तु भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शंभौ श्रीफलद्रोणकाकयोः । वरचन्दनमाख्यातं कालेये देवदारुणि । स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु च । स्त्रीरले च प्रियङ्गौ च स्यादथो शकुलादनी ।' एवं पाठ: ख- पुस्तके. ५. 'कट्टीमांसीपिलिका' खः 'कटुमांसी किञ्चुलिका' ग घ ६. 'शालङ्कायनशब्दः स्याद्दचिभेदेऽपि नन्दिनि । शिवकीर्तनशब्दस्तु भृङ्गिरीटे मुरद्विष । श्वेतवाहन इत्याख्या शशाङ्के च धनंजये । स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे । सहस्रवेधी चुक्रे स्यात्सहस्रवेध रामठे | हरिचन्दनमाम्नात गोशीर्षे देवपादपे । हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेच्चामरपुष्पस्तु के' इत्यधिकः ख-पुस्तके पाठः ७. 'धूलीकदम्बोऽस्तिनिशे' ग घ ८. 'गोडुम्ब औषधम्' इति टीका. 'गोडिम्बे' गव. ९. 'कालानुसार्यः' गय १० 'दुग्धाम्रे दुग्ध' ख. ११ इतः प्राक् 'भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि' इत्यधिकः पाठः ख- पुस्तके १२. 'तापिच्छस्तमाल:' इति टीका. 'तापिञ्छ' ग घ . १३. 'पांशु' गन्ध. १४. 'वस्वौकसारा' गन्ध. १५. 'पुरीनलिन्योर्वि' ख. १६. 'गम्भारी श्रीपर्णी वृक्ष:' इति टीका. 'गम्भीर्याम्' ख. १७. 'भृशार्थ पौनःपुन्येऽपि कथ्यते । आसुतीवलशब्दस्तु यज्ञकर्तरि शौण्डिके । भवेदुद्दण्डपालस्तु मत्स्य सर्पप्रभेदयोः । एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ । कूटपालो गजपित्तज्वरे पाकमारुते ||' इत्यधिकः पाठः ख-पुस्तके.

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313